SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ (२१) उभयपदप्रधानः कर्मधारयः। पूर्वं विशेषणपदम्, अग्रे विशेष्यपदम्। यथा-त्रिषु लिङ्गेषु-वीरश्चासौ पुरुषश्च-वीरपुरुषः (१) मधुरा चासौ वाणी च - मधुरवाणी। (२) नन्दनं च वनं च - नन्दनवनम्। (३) "कमधारयस्तुल्यार्थे" इति सूत्रेण समासः । स्त्रीपूर्वपदस्य तु पुंवद्वेति पुंवत्त्वम्। इत्यादि कर्मधारयः॥३॥ इति प्रथमवृत्तार्थः॥१॥ अथ बहुव्रीहि: प्रायो० । व्यारव्या - गुणैविशेषणैर्गुणी विशेष्यं यदा यच्छब्देन समस्तः सनन्यविशेषणं यत्र भवेत्, सोऽयं बहुव्रीहिः समासः स्यात्। बहुव्रीहिरन्यपदप्रधानः। द्वितीयाद्या षड् विभक्तयो यच्छब्दे स्युः। अन्यविशेषणत्वात् तल्लिङ्गवचने च भवतः। यथा - आरूढो वानरो यं सं आरूढवानरो वृक्षः। १ जितो मोहो येन स जितमोहो जिनः। २ दत्ता दक्षिणा यस्मै स दत्तदक्षिणो द्विजः। ३ वीतो गतो रागो यस्मात् स वीतरागः सर्वज्ञः। ४ शीता रश्मयो यस्य सः शीतरश्मिः। ५ प्रादुर्भूता अङ्कुरा यस्यां सा प्रादुर्भूताङ्कुरा। ६ एतेषु सर्वेषु बहुव्रीहिरन्यार्थ इति सूत्रेण समासः । ७ इति बहुव्रीहिसमासः॥८॥ अथ द्विगुसमासः। सव्याद्यपुंस्त्र्येकतया पदम्। व्यारव्या- द्विगौ द्विगुसमासे पदमुत्तरपदं स्यात्। कीदृशं सव्यादि- सव्यावाचिपदं विशेषणभूतमादौ यस्य तत्सव्यादि। एवं विधमुत्तरपदं विशेष्यभूतं स्यात्। पदद्वयमपि षष्ठ्यन्तं समाहारशब्देन समस्यते। कया ? पुंस्त्र्येक्तया-अपुमान् क्लीबलिङ्गं स्त्रीलिङ्गं च तयोरेकतया एकवचनतया नपुंसकलिङ्गं स्त्रीलिङ्गं वैकवचनान्तं समासः स्यादित्यर्थः । पुंलिङ्गं तु न स्यादेवेति उत्तरपदप्रधानो द्विगुः । शेषः सर्वः क्लीबलिङ्गः। यथा - त्रयाणां लोकानां समाहार: त्रिलोकी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy