________________
A. १०-११ ]
ચતુર્વિશતિજિનસ્તવનમ
[५५७ ]
का भाति देहे प्रवरे त्वदीये ? त्वं कस्य नम्रस्य सुखं करोषि ?। श्रेयांस ! सर्वज्ञ! सुरार्चिता ! तव प्रतापेन पराजितः कः? ॥ १२ ॥
(११ भानुः) गौर्या सखी काऽध्वनि किं सुखाय ? क्रियापदं किं विदुराशिषार्थे ?। अर्थ विरुद्धं वदति द्वयं कि? हर्षेण के स्तौति जिनं सुरेन्द्रः ? ॥ १३ ॥
(१२ जयानन्दनम् ) वर्णन विष्णुर्वद किंविधः स्यात् ? कीदृक समुद्रे वहनं सृजन्ति । सरो यथालकुरुते मरालस्तथावताराद् विमलो जिनः किम् ? ॥ १४ ॥
(१३ श्यामोदरम् ) मुख्यां विभक्तिं विदुरा विदुः कां? सन्तः स्वदन्तान् क न दर्शयन्ति । मार्गेषु किं भारवहं श्रुतेनानन्तेन कः प्राप नृपः प्रमोदम् ॥ १५ ॥
(१४ सिंहसेन) प्रीति प्रवृद्धामपि को भनकि ? करोति कः पुष्परसाभिलाषम् ? । ऊरुस्थलं भूषति को यदीयं ? धर्मे रतिं तीर्थकरः स दत्ताम् ॥ १६ ॥
(१५ दम्भोलिः) का पात्यते भूपतिनाम्बुधिः कं देवं निजोत्सङ्गशयं दधाति ? । धत्तेऽहिराट् कां कमलोद्भवः कः? कः शान्तिकर्ताऽजनि जन्मतोऽपि ? ॥१६॥
(१६ कुरङ्गाङ्कः ) को धातुरस्ति प्रसव क्रियार्थः ? कान् क्षत्रियो मुञ्चति नायकार्थे ? । मन्दाकिनी को निदधाति शीर्षे ? कर्मद्विषां को विजयी जिनेन्द्रः ? ।। १८ ।।
(१७ सुरसूनुः) कोशं निजं कुत्र दधौ विडोजाः १ सम्बोधनं किं विषमायुधस्य ? । वर्षासु काऽलक्रियते प्ररोहैः ? कः श्रीजिनः श्रीजनको जनानाम् ? ॥ १९ ॥
(१८ श्रीदेव्यङ्गम् ) द्विधा हली कां कुरुते हलेन ? कं वाद्धिवद धर्मपरास्तरन्ति ? । किं वाञ्छति प्राणिगणः समग्रो ? व्यमूषयन्मल्लिरगस्तिवत् कम् ? ॥२०॥
( १९ कुम्भवंशम् ) ११. भा-कान्तिः । नुः पुरुषस्य । भानुः-सूर्यः। १२. जया। यानं-वाहनम् । नन्द । दश्च नश्च दनम्-दौ दाने, नो निषेधे । १३. श्यामः | वहनं-प्रवहणं, अदरं-विवररहितम् । श्यामायाः उदरम् । १४. सिम्-सिविभक्तिम् । हसेहास्ये । अनः शकटम् । १५. दम्भः कपटम्। अलिः-भृतः। दम्भौलिः- वज्रम् १६. कु:-पृथ्वी। अ-विष्णुम् । गां-पृथ्वीम् । क:-ब्रह्मा। १७. धूडौच प्राणि. प्रसवे । पू. षसा सूः । असून-प्राणान् । उ:-ईश्वरः । १८. श्रीदे-नदे। हे व्यङ्ग! -विगताङ्ग । भू-पृथ्वी । १९. कुम्-पृथिवोम् । भव-संसारम् । शम्-सुखम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org