SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ १०-११ સાસુ-વહુનાં મંદિરે [५४६] नातौ परस्यामथ धर्मदासः सुवोरदासश्च सुतौ वरेण्यौ ॥ अथान्यदार्थार्जनहेतवेऽसौ स्थानांतरान्वेषणमानसोऽभूत् ॥ २० ॥ श्रीस्तंभनाधीशजिनेशपार्श्वप्रसादसंपादितसर्वसौख्यम् ॥ चंबावतीति प्रतिनामधेयं श्रीस्तभतीर्थ नगरं प्रसिद्धम् ॥ २१ ॥ स बाडुआख्यः स्वमुखाय तत्र वसन्ननेकैः सहबन्धुवर्गः ॥ सन्मानसंतानधनैर्यशोभिदिने दिने वृद्धिमुपैति सम्यक् ॥ २२ ॥ श्रीहीरकुरेरुपदेशलेशं निशम्य तत्वावगमेन सद्यः ॥ मिथ्यामतिं यः प्रविहाय पूर्वी जिनेंद्रधनै दृढवासनोऽभूत् ।। ३३ ॥ [वसंततिलकावृत्तम् ] पापप्रयोगविरतस्य गृहे समस्ता भेजु स्थिरत्वमाचिरादपि संपदो थाः॥ पूर्वार्जितप्रबलपुण्यवशेन तस्य सन्याघमार्गसुकृतानुमतप्रवृत्तेः ॥ २४ ॥ [इन्द्रवज्रावृत्तम् । स धर्मसाधर्मिकपोषणेन मुमुक्षुवर्गस्य च तोषणेन ॥ दीनादिदानैः स्वजनादि मानैः स्वसंपहस्ताः सफलोकरोति ॥ २५ ॥ इतश्चशत्रुजयख्यातिमथो दधानं कावीति तीर्थ जगति प्रसिद्धम् ।। काष्टेष्टकामृन्मयमत्र चैत्यं दृष्वा विशीर्ण मनसेति दध्यौ ॥२६॥ दृढं भवेञ्चैत्य मिदं यदीह कृतार्थतामेति ममापि लक्ष्मीः ॥ अहंदवचोवासितमानसस्य मनुष्यतायां फलमेतदेव ॥ २८ ॥ [अनुष्टुवृत्तम् ] ततः श्रद्धावता तेन भूमिशुद्धि पुरस्सरम् ॥ कावीतीर्थ स्वपुण्यार्थ श्रीनाभेयजिनेशतुः ॥ २८ ॥ नंदवेदरसैणांकमिते संवत्सरे [१६४९] वरे ।। स्वभुजाजितवित्तेन प्रासादः कारितो वरः ॥ २९ ॥ सारसारस्वतोद्गाररंजितानेकभूधवैः ॥ श्रीमविजयसेनाख्यसूरिराजैः प्रतिष्ठितः ॥ ३० ॥ [ मन्दाक्रान्तावृत्तम् ] मूलस्वामो जिनपतियुगादीश्वरो यत्र भास्पद द्वापंचाशत्रिदशकुलिकासंयुतः पुण्यसत्रम् ॥ उच्चैरभ्रंलिहशिखरभृत्तोरणैरंचितश्रीः प्रासादोऽयं धरणिवलये नन्दतादाशशांकम् ॥ ३१ ॥ lain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy