________________
[३८]
Jain Education International
શ્રી જૈન સત્ય પ્રકાશ
(५)
मूर्तिः काशविलास जित्वरतरी सौन्दर्यमालासभा, गौराणां परमाणुपुज्जघटिता डिण्डीरकम्बूपमा । प्रोजृम्भत् सितपुण्डरीकसरुपा श्रीपार्श्वनाथप्रभोः, पोसीनाधिपतेर्मनोरथततिं तन्यात्सुरम्यां नृणाम्
मिध्यानं दुरिताद्रिभेदनभिदु ध्यानं निधानं श्रियो, भक्त्या संस्मरणं जनुर्मृतिहरं सम्पूजनं शंकरम् । सर्व पश्च जनेप्सितं द्रुततरं किं किं न चर्कर्त्ति तत् ? पोसीनाधिपते त्रिकाल सुविदः श्रीपार्श्वनाथप्रभोः
[ शिखरिणीवृत्तम् ] (७) चमत्कारश्रेणीप्रकटनविधाध्यक्ष विबुधम्, जरत्पारम्पर्य श्रुतमिति मया संस्तुतमिदम् । जिनेशं पार्श्वशं सकलजनताभीष्टदमिमम्, स्तुवेऽहं पोसीनाधिपतिमपवर्गत्रिदिवदम् [ शार्दूलविक्रीडितवृत्तम् ]
भोगिस्फारफटच्छटांकितशिरा पद्मावतीमालितो भक्तत्राणसमर्थपार्श्वललितः क्षीणाष्टकर्मा जिनः । गीर्वाणप्रमदाप्रगीत सुयशा निर्वाणसद्मस्थितः, पोसीनाधिपतिस्तनोतु कमलां वः पार्श्वनाथप्रभुः
(९) जोर्यच्छृंगदृषन्नरं हृदयहृन्निर्वर्ण्य चैत्यं जरद्, यस्योद्धारमकारयत्कविरविः श्रीलब्धिसूरिप्रभुः । तचैत्याधिपतिर्यथार्थवदिता स्याद्वादिमौलिप्रभाक्, पोसीनाधिपतिः करोतु कमलां वः पार्श्वनाथप्रभुः
|| प्रशस्तिः ||
(१)
व्याख्यातुर्जगतीप्रतीतयशसः श्रीलब्धिसूरिप्रभो - रन्तेषभुषनाभिधानगणिनः पन्न्यासपथाजुषः । पोसीनाधिपपार्श्वनाथरतिना भद्रंकरेणाणुना, शिष्येणारचि चन्द्रभास्करघट सेयं स्तुती राजताम
[ ४
For Private & Personal Use Only
॥५॥
॥ ६ ॥
116 11
11211
113 11
|| 2. 11
www.jainelibrary.org