SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ [१२] શ્રી જૈન સત્ય પ્રકાશ [१५४ अथेदं चिन्तयामास, ताम्यंस्तक्षशिलापतिः ॥ ३७० ॥ स्वामिनं पूजयिष्यामि, समं परिजनैरिति । मनोरथो मुधा मेऽभूद हृदि बीजमिवोषरे ॥ ३७१ ॥ चिरं कृतविलंबस्य, लोकानुग्रहकाम्यया । धिगियं मम सा जज्ञे, स्वार्थभ्रंशेन मूर्खता ॥ ३७२ ॥ धिगियं वैरिणी रात्रिधिगियं च मतिर्मम । अन्तरायकरी स्वामिपादपद्मावलोकने ॥ ३७३ ॥ विभातमप्यविभातं, भानुमानप्यभानुमान् । दृशावप्यदृशावेव पश्यामि स्वामिनं न यत् ॥ ३७४ ॥ अत्र प्रतिमया तस्थौ रात्रि त्रिभुवनेश्वरः । अयं पुनर्वाहुबलिः, सौधे शेते स्म निस्त्रपः ॥ ३७५ ॥ अथ बाहुबलिं दृष्ट्वा, चिन्तासन्तानसकुलम् ।। उवाच सचिवो वाचा, शोकशल्यविशल्यया ॥३७६ ॥ अत्र स्वामिनमायातं, नापश्यमिति शोचसि । किं देव! नित्यवास्तव्यः, स एव हृदि यस्य ते? ॥ ३७७ ॥ कुलिशाडूकुशचक्राब्जध्वजमत्स्यादिला-िछतैः । दृष्टैः स्वामिपदन्यासैदृष्टः स्वाम्येव भावतः श्रुत्वेति स्वामिनस्तानि पदबिम्बानि भक्तितः ।। सान्तःपुरपरीवारः सुनन्दासूरवन्दत ॥ ३७९ ॥ पदान्येतानि मा स्माऽतिक्रामत् कोऽपीति बुद्धितः । धर्मचक्रं रत्नमयं तत्र बाहुबलिय॑धात् ॥ ३८० ॥ अष्टयोजनविस्तारं, तच्च योजनमुच्छितम् । सहस्रारं बभौ बिम्बं, सहस्रांशोरिवाऽपरम् त्रिजगत्स्वामिनस्तस्य, प्रभावादतिशायिनः । सद्यस्तत्कृतमेवैक्षि, दुष्करं द्युसदामपि ॥ ३८२॥ तत् तथाऽपूजयद् राजा, पुष्पैः सर्वत आहृतैः । समलक्षि यथा पौरैः, पुष्पाणामिव पर्वतः तत्र प्रवरसङगीतनाटकादिभिरूदभटम् । नन्दीश्वरे शक इव स चक्रेऽष्टाह्निकोत्सवम् ॥ ३८४ ॥ आरक्षकानर्चकांश्च, तत्राऽऽदिश्य विशांपतिः । नमस्कृत्य च कृत्यज्ञो जगाम नगरी निजाम् ॥ ३८५ ॥ આ જ વાતને ઉલ્લેખ આવશ્યક નિર્યુકિતમાં પણ છે. આવશ્યક નિર્યુકિત ઉપર, મહાન ગ્રંથકાર યાકિની મહત્તરાસૂનુ આચાર્ય શ્રી હરિભદ્રસૂરિજીએ ટીકા રચી છે તેમાં વિસ્તારથી ખૂલાસે આપ્યું છે. તેમાં પણ શ્રી ઋષભદેવ પ્રભુજીનું તક્ષશિલામાં ગમન, બાહુબલિજીનું બીજે દિવસે વંદના કરવા જવું, અને પ્રભુજીનાં દર્શન ન થવાથી ધર્મ = Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy