SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 388 प्रमाणवार्तिक-भाष्यम् [ 3 // 336 . (ङ) बाह्यार्थनिरास:तेन निरालम्बनत्वे सर्वप्रत्ययानां तदान्यसम्विदो अभावात्स्वसंवित्फलमिष्यते // 333 // 6 स्वसम्वेदनमेव फलं। विज्ञानं स्वयमुदयत्स्वरूपमेवावभासयति नार्थम् / अर्थप्रतिपादने तस्य सामर्थ्याभावात् / अदर्शनाच्चार्थप्रतिपादनस्य / / अत्रोच्यते - . यदि बाह्योनुभूयेत को दोषो नैव कश्चन / इदमेव किमुक्तं स्यात्स बाह्योर्थोनुभूयते // 334 // किमनया सूक्ष्मेक्षिकया बाहयन्नानुभूयत एव। अस्य प्रयासस्य किं फलं। यथा लोकव्यवहाररस्तथास्तु / न चानालम्बनत्वप्रतिपादनेऽन्यथा व्यवहारो न च व्यवहारादपरमिह फलमस्ति / तदप्यसदेव / ' यदि व्यवहृतिः साध्या व्यवहारो यथा तथा / वेदस्यापौरुषेयत्वे प्रयासः किंफलस्तव / / 963 / / र न खलु यहनादिव्यवहारोहकृतः + पौरुषेयत्वेतरतया सिद्धो येन तदभावेन तद् भवेत् / अथ स एव विचार्य क्रियमाणः सदर्थः। तथा सति विचार्यतामपरमपि। अथ पौरुषेयत्वे प्रमाण्यमेव न स्यादेतदपरस्यापि समानम् / अपौरुषेयत्वेपि प्रामाण्याभावात्। किञ्च / . यदा बाह्यग्रहाभावस्तदा रागादि हीयते / भावनाबलतो वृत्तेस्तदभावे विपर्ययात् // 964 / / तत्त्वनिरूपणे हि रागादिदोषक्षयः / स च परापुरुषार्थ इति प्रतिपादितं। ततस्तत्त्वं निरूप्यते / बाह्यार्थस्यानुभवो नास्ति / तथा हि। बाह्योऽर्थोनुभूयत इति कोर्थः। किमनु।/ भूतिप्रवेशसभावादनुभूयत इति व्यपदेशोप्रिवेशनादेव तत इदमाह - यदि बुद्धिस्तदाकारा सास्त्याकारनिवेशिनी / / सा बाह्यादन्यतो वेति * विचारमिदमर्हति // 335 // तदाकारा दुद्धिरिति कोर्थः / नीलाद्याकारा / नन्विदमिदानीम्विचार्यते / तदाकारेति कुतः। ततस्तदाकारा बुद्धिरिति परिज्ञानार्थं स पुनर्द्रष्टव्यः। तत्रापि दर्शने तदाकारतैवेत्यनवस्था। अथ निराकारेण दृश्यते / तदा तदेव दर्शनं किमाकारपरिकल्पनेन / अथ तदाकारेति तन्निरूपणाकारात्तद्दर्शनाकारेति। तदा तदेवोच्यते / तन्निरूपणन्तद्दर्शनमिति कोर्थः। अथ द्वयमपि दृश्यते / तथा सति स्वरूपेण द्वयं दृश्यते। ततः परस्पर ग्रहणं न वा कस्यचिदिति स्वसम्वेदनमेव द्वयमिति प्रतिपादितं / अथ बाह्यं विनाऽयमेव न भवति / एवन्तहि बुद्धि विनाऽपरोक्षता न भवतीति प्राप्तम् / अथ दृश्यत एवापरोक्षता(1) तथा सति परं परिकल्पनीयं (1) तदाकारा बुद्धिरपि दृश्यत एव किमपरपरिकल्पः। यतः . दर्शनोपाधिरहितस्याग्रहाद्ग्रहे प्रहात् / दर्शनं नीलनिर्भासं; नार्थो बाटोस्ति केवलः // 336 // B. fasiferunt M. Test(बा
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy