SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ see अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 377 यत्पुनरुक्तं मत्वर्थनिरासः साध्यत इति तदप्यत्यन्तमयुक्तं / मत्वर्थाभाव एवात्र साध्यते परमार्थतः / निरालम्बनसाध्यत्वमन्यथा न भवेत्तदा // 828 / / निरालम्बनं विज्ञानमिति : आलम्बनत्वस्याभावः साधयितुं प्रस्तुतो येन कथन्तस्य स एव साध्य इत्युपरि निक्षिप्यते। इच्छया हि विषयीकृतः पक्षः स कथमन्यथा क्रियेत / यो यः साधयितुमिष्टः स एव पक्षः / अथ स तथाभूतः साधयितुमशक्यः / तथा सति हेतुदोषः एवासौ न पक्षोकः अभाववत्त्वेन साधने मत्वर्थ एव / / न तु पारमार्थिकमत्वर्थसाध्यतायां प्रमाणमस्ति। कल्पितमिधर्मभावस्याश्रयणात् / अन्यव्यावृत्तिद्वारेण स्वभावभूत एव धर्मो व्यतिरेकेण व्यावस्थाप्योऽर्थवत्तया कल्प्यते तत्र यद्यपि नामायं संवृत्या व्यवहारः तथापि न तावता क्षतिः / गज नि मी ल ने न तावदयं व्यवहारः प्रवर्त्यताम्। पुनरयमपि निरूप्यमाणो विशीर्येत एव / ननु केयं सम्वृतिः / यदि वस्तु तदेव वक्तव्यम्। किन्तत्र नामान्तरेण / अथ नास्ति किञ्चित्तदा सम्वृतिरिति किनामान्तरेण। सत्त्याभासः परन्तत्र न तत्त्वं परमार्थतः / विचार्यमाणशून्यत्वे स म्वृ तिः सेति गीयते // 829 // तत्वसम्वरणात्सम्वृतिः प्रतिभासमानं हि रूपमसविति न तावता युक्तं। विचार्यमाणतायां पुनरसत्त्वादभावनिश्चयः। ततः परमार्थापेक्षया संवृतिरुच्यते। संवृत्यास्तीति भ्रान्तजनापेक्षयास्तीति। न च भ्रान्तस्य बाधकोदय इति सत्यतयाऽभिमानात्संवृतिसत्त्यन्तदुच्यते / तत इदमपि वक्तुमेव व्य . अध अभावे भ्रान्तता केयं भावश्चेद् भ्रान्तता कथम् / अतत्त्वभासो' भ्रान्तिश्चेदतत्त्वे सम्वृतिनं किम् / / 830 // अतत्त्वे सत्त्यता नो चेत्सत्याभासो भवेन किं / ततः संवृतिसत्त्यत्वं सत्त्याभासत्त्वमित्यपि // 831 // - वञ्चनोक्तिः कथन्तस्यात्तालावक्रासवादिवत् / यस्य सत्त्यावभासित्वमसत्त्येप्यसमञ्जसं // 832 // d-तस्यासत्त्यावमासित्त्वकथने कैव वञ्चना / तस्मात्पराशयाज्ञाने आत्मोत्कर्षाभिधित्सया // 833 // प्रलाप: केवलस्तस्मादन्या नास्त्येव वञ्चना / मा तदास्तान्तावदेतत् / अन्यदुच्यते / यदव प'रेणोक्तं ला' पर्युदासे निषेधे वा व्यतिरिक्तस्य वस्तुनः / प्रमेयत्वाद्यभेदेन जगतः सिद्धसाधनम् // 834 // प्रमेयत्वेन व्यतिरिक्ततव नास्ति सम्वेदनात्सर्वस्य जगतः। व्यतिरिक्तस्यालम्बनस्याभावात् 5 सिद्धमेव साधनं / ... .... 0 यदिचात्यन्तभिन्नेन निरालम्बनतोच्यते / कथञ्चिच्चे विरुध्येत प्राक्पक्षःकल्पितेनते // 835 // वस्त्वाद्याकारभेदेन धीनिरालम्बनेष्यते / ग्राहकाच्चेदभिन्नत्वं शक्तिभेदो विरुध्यते // 836 / / निरालम्बनबुढेश्च यद्युत्पत्तिः प्रसाध्यते। दृष्टत्वात्सेष्यतेऽस्माभिर्बाह्यग्राह्यविवर्जिता // 837 // सम्यक्त्वं पुनरेतस्यास्त्वं नेच्छसि कथञ्चन / 2. आत्मांशेऽवसिता ह्येषा मृगतृष्णाम्बुबुद्धिवत् // 838 // 1 श्लोकवार्तिके 231-32 पृ. -
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy