SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ला 375 unt अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् रूपणापरः प्रत्ययो भवति / तदा तेन विच्छिन्नं पूर्वकमालम्बनं प्रत्ययो वाध्यवसायविषयः / तेन स बाधको व्यवस्थाप्यते। तथा हि यद्ययं न स्यात्तदाऽविच्छिन्नमेव पूर्वकविज्ञानालम्बनं भवेदन्यकालवत्। ततो ऽन्वयव्यतिरेकाभ्यां बाधकेन विच्छिन्नमिति गम्यते। एवं विनाश्यविनाशकभाव आलम्व्य आलम्बनभावश्च / तथा हि / परोक्षे भावितामर्थे विनिश्चित्य घटादिके / तदाकारोदयज्ञानन्तदालम्बनतास्थितिः // 808 // तथा स्वच्छं स्फटिकवज्ज्ञानं यो यस्तत्रोपचीयते / तं तमाकारमासाद्य तच्चकास्ति तथा तथा // 809 // अपरोक्षस्तावदस्तीति कुतश्चिदागमादनुमानतो वावसितः स्वच्छञ्च विज्ञान में यदि न स्यादयमर्थः परिप्लवेव केवलं किमस्ति किमत्र नास्तीति / परिदृष्टे चार्थात्मनि प्लवमान, इव तीरमासाद्य स्थिरीभवति तेन तदालम्बनमिति व्यवस्थाप्यते। तथा हि। चिन्ताव्यापृतचेतस्क: प्लवमानेन चेतसा / इदं तदा दृष्ट मिति पूर्वदृष्टे स्थिरीभवेत् // 810 // . दृष्टश्रुतविस्मृतं हि विकल्पयन् किं किं दृष्टं तत्र प्रपञ्चकथायां श्रुतम्वेति पर्यन्वेषणपरो यदा यथाश्रुतादिकमभिमुखीकरोति तदाभिमुखीभते स्थिरत्वेन तत्र प्लवमानतापरित्यागनिमित्तमालम्बनतया व्यवस्थापयतीति लोकव्यवहारः / तत्त्वमेव किमेवं चेत् न भवत्यस्य वस्तुनः / न, प्रत्यक्षानुमानाभ्यामप्रतीतेरवस्तुता // 811 // ___ न तावत्परोक्षस्य सत्ता प्रत्यक्षेण प्रतीयते / तदभावादनुमानमपि नेति कुतः। सति परोक्षप्रतीतो सद्भावे,तदालम्बनता प्रत्यक्षस्य सिध्येत् / सालम्बनतायाञ्च प्रत्यक्षस्य वस्तुसम्बद्धं सिध्यति ततोनुमानं तत्प्रतिबद्धवस्तुलिङगोदयाद्वस्तु गमयति ततोऽनुमानप्रसिद्ववस्तुविषयत्वात्सालम्बनं प्रत्यक्षं ततो वस्तुसम्बन्धोऽनुमानस्य ततो वस्तुगतिरिति चक्रकमव्यवस्थापि भवेदिति न वस्तुप्रतिपत्तिसम्भवः बिल 'एवमप्रतिपन्ने हि वस्तुन्युपगमः परं / प्रमाणरूपाविज्ञानात्पूर्वसम्वित्तिसम्भवात् // 812 // तत्प्रतीत्यनुसारेण विशेषणविशेष्यता / मया प्राक् प्रत्यपादीदं तद्रूपामर्षवर्जनात् // 813 // त्वया वा पुनरामर्श कथमस्त्वस्य वेदनं / एवं निरूपणायाञ्चेत् स तथा नास्ति तत्त्वतः // 814 // नास्त्येव तत्र को दोषो यतः पर्यनयुज्यते / बाध्यबाधकभावश्चेत् प्रतीत्योः परपूर्वयोः // 815 / / स्वप्रतीतो कस्य दोषो येन पर्यनुयुज्यते (1) आत्मानमेव किं कश्चिदनुयुञ्जन् प्रवेद्यते // 816 // भ्रान्तिरेव कुतस्तस्य नात्मा पर्यनुयोगभाक् / भ्रान्तित्वेवसितैत्वत्र कारणान्वेषणेन किं / / 817 / / परोपि प्रतिपाद्यत यदैवं सुपरिस्फुटं / तदा सोपि न वक्त्येव कुतो मे भ्रान्तिरीदृशी / / 818 // यदा हि भ्रान्तिसम्भवे स्वयं परामर्शवतः पुनरसौ निवर्तते नेदं रजतमिति तदा किमात्मनः पर्यनुयोगं कश्चित्करोति (-) कथमहमप्रतिपन्ने रजते तद्विशेषणमभावं प्रतिपाद्य विशेषणे चाप्रसिद्ध कथन्तद्विशेषणे चाप्रसिद्ध कथन्तद्विशेषणं परोक्षं जानीयां / येन मम पक्षदोषो न भवेत् / परप्रतिपादनप्येवमेव / ननु तत्र सत्त्यरजतदर्शने सम्भवति भ्रान्तिरिह पुनर्न किञ्चिद् दृष्टमिति कुतो भ्रान्तिः एतदुत्तरत्र प्रतिपादयिष्यामः। अपि च / भ्रान्तिश्चेत्परमार्थेन कथञ्चिदवगता किमिदानी भ्रान्तिकारणान्वेषणप्रयासेन / यदि कारणं नास्ति भ्रान्तिरेव न भवेत् /
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy