SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 359 युक्त्योपपन्नां हि सती प्रकल्प्य यद्वासनामर्थनिराक्रियेयं / तथापि बाहयाभिनिवेश एष जगद् ग्रहग्रस्तमिदं समस्तं // 682 // तस्माद्विभक्त आकारः सकलो वासनाबलात् / बहिरर्थस्वरहितस्ततो ऽनालम्बना मतिः॥६८३।। अत एव सर्वे प्रत्यया अनालम्बनाः प्रत्ययत्वात्वम्प्रत्ययवदिति प्रमाणस्य परिशुद्धिः / तथा हीदमेवानालम्बनत्वं यदात्माकारवेदनत्वं / ननु सकलप्रत्ययपक्षीकरणे न दृष्टान्त इति कथमनुमानं / न (1) अर्थापरिज्ञानात् (1) प्रमाणफलमेतद्धि प्रमाणापेक्षसाधने / दृष्टान्तस्य यतः सिद्धेः सर्च' इत्यादियुक्तिमत् // 684 / / ___विवादास्पदीभूतजाग्रत्प्रत्यया एव पक्षीकृताः। स्वप्नप्रत्ययानान्तु भावनान्वयव्यतिरेकानुविधानात्सिद्धमेव निरालम्बनत्वं दृष्टान्तीक्रियते / कथं व्याप्तिसिद्धिः / यज्जातीयो यतः सिद्ध इति न्यायात्। अन्यथा सकलकार्यकारणभावाभाव एव भवेत्प्रमाणाभावात्। अन्वयव्यतिरेकानुविधानमेव हेतुफलयोस्तत्त्वमाचक्षते तद्विदः। आदराभ्याससंसर्गि जाग्रदृष्टं हि दृश्यते। स्वप्ने ततो, परं ज्ञानं तथैवेति प्रतीयतां // 685 // ननु न प्रत्ययत्वादनालम्बनत्वं स्वप्नप्रत्ययानामपि तु बाधकसद्भावात् / तथा हि। स्वप्नदृष्टं पुनर्जाग्रदर्शनेन न दृश्यते / तेनान्यदा तदैवान्यैस्तदनालम्बनं ततः // 686 / / बाधकप्रत्ययस्तस्यालम्बनम्विनिवारयन् / नानालम्बनताज्ञानं करोत्यत्र सुनिश्चितं // 687 / / घ:| न चैवं स्वप्नज्ञानवद्वाधको जाग्रत्प्रत्यये। तत्कथं तदृष्टान्तः / नैतदस्ति। बाधकप्रत्ययो हि कथन्तस्य विषयापहारक्षमः। नहि ज्ञानस्यार्थापनयनं व्यापारोऽङकुरादीनामिव। कस्तहि। ज्ञापनव्यापार एव। तथा च नास्य विषयोस्तीति परेण ज्ञापयितव्यं / अभावञ्चानुपलब्धिरेव ज्ञापयति / 'एकः प्रतिषेधहेतुरिति वचनात्। विरोधस्याप्यनुपलब्ध्यव साधनात् / ततस्तत्प्रमेयशून्यतावबोष एव बाघकेन करणीयः। तदभावश्चान्य. .भाव एवेति तदन्यालम्बनतव बाधकत्वं / तच्च जाग्रत्प्रत्ययेपि' संकलं सम्भवि / ननु जानत्प्रत्ययेनैवं भवति नैतदेवमिति, तत्कथं स बाधितः / 'ननु नैतदेवमेतदेवमिति फलमसम्वेदनेतरयोः ततः कथं फलतो व्यवस्था न सम्वेदनात् / फलेन हि व्यवस्था प्रमाणाभावात्सम्वृतिसदेव। सम्वेदनमन्तरेण कथं फलमिति चेत्। म सम्वेदन, सम्वेदनात्। ततः फलमिवार्थसम्बेदनमपि स्वसम्वेदनमात्रमेव। ततस्तत्रैवार्थसम्वेदनमिति व्यवस्था। तथा हि। अर्थसम्वेदने ज्ञाते तदनन्तरतो भवत् / फलन्तस्य भवेदेवं गमकन्नान्यथा तु तत् // 688 // तस्मादिदमेव तस्य बाधक यदन्यरूपग्राहकत्वं तच्च सर्वप्रत्ययापेक्षया प्रत्ययान्तराणां / ननु जाप्रत्प्रत्ययार्थः सम्वादी तत्कयन्तस्यान्यनाग्रहणं। स्वप्नप्रत्ययानामपि तत्स्वप्नदशिना तवन्यस्वप्नप्रत्ययग्रहणादविसम्बावनमेव / तत्कथं बाध्यत्वं / जाप्रत्प्रत्ययेन बाध्यत्वादिति ' B. टि-दिवाविज्ञानस्य धारकत्वं स्वप्नविज्ञानविषयालम्बकत्वात्। तच्च जाग्रत्प्रत्ययेपि स्वप्नप्रत्ययस्य विषयान्तरालम्बना सम्भवति / पटज्ञानस्य घटज्ञानम्वा। एव
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy