SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अर्थसंवेदन-चिन्ता] प्रत्यक्षम् 357 शक्तिविशषो वासनेति व्यपदेश्यः / अयञ्च कार्यकारणभाव एवम्भूत उपलब्ध एव / ततो न वासनास्तित्वे पूर्वविज्ञानभेदे च प्रमाणाभावोऽनादिवासनाभावस्य पदार्थानादितावदेव सिद्धः। कार्यकारणसन्तानो नादिहियो यथोदितः / तथाविज्ञानसन्तानो,नादिः किमिति नेष्यते // 649 / / __. वासनाभेदे किन्निमित्तमिति चेत् / तदसत् / अस्त्येव वासनाभेदस्तन्निमित्तस्य सम्भवात् / ज्ञानभेदो निमित्तं हि तस्य भेदस्ततः पुनः // 650 // पूर्वप्रवृत्तज्ञानभेद एव वासनाभेदनिबन्धनं, ज्ञानभेदोपि तत एव वासनाभेदादिति को दोषः। नन्वेवमितरेतराश्रयणदोषातदसवतः _ ,य न सैव वामना तेन जन्या तस्यैव कारणं / ज्ञानस्य येन दोषोयमितरेतरसंश्रयः // 651 // अपि त्वन्या वासनान्यविज्ञानभेदहेतुरन्यः प्रत्ययोन्यवासनाहेतुः पूर्ववासनाभेदजनितः / ततो नेतरेतराश्रयदोषः। अन्यथार्थदर्शनेपि समानमेतत् / तथा हि। अर्थभेदो निमित्तं चेत् तस्य भेदः कथं पुनः / ज्ञानभेदेन भेदे हि प्रापदन्योन्यसंश्रयः // 652 // ince न खल्वर्थभेदोप्यनिमित्त एव | ज्ञानभेदनिबन्धनन्तस्यायोगात् / ज्ञानभेदो निमित्त / ' मितीतरेतराश्रयदोषः। अर्थभेद एवार्थभेदस्य निमित्तमिति सुतरामसङगतं / अथान्योर्थभेदोन्यस्यार्थ (भेदस्य निबन्धनमिति सोप्यन्यस्येति वासनायामपि समानमेतत् / / नन्वर्थभेदः प्रतिभासमानो भिन्न नत्ति विज्ञानमिति युक्तमेतत् / वासना तु कथमिति कः परिहारः। यदि वासनापि प्रतिभासतेयंवदर्थ एव सेति नाममात्रकमेव भिद्यते तत्र वासनामात्रग्राहके व्याप्रियमाणा ग्राहकभेदमेव जनयत्। न तु ग्राहचस्य। तथा हयनुभवादुत्पन्ना वासना स्मृतिमात्रमेव जनयन्ती दृश्यते / / अत्र परिहारः। पूर्वविज्ञानमेवात्र वासनेत्युदितं पुरा / तत्तदाकारविज्ञानं जनयेभेदकं न किं // 653 // यथा हि शृङखलाबन्धः स्त्यनितां गतिमादवत् / अभावेप्यात्मनो दृष्टस्तद्रूपगतिकारणम् // 654 // वासनाभेदतो भेदो ग्राहयाकारेपि दृश्यते / अभावेपि पदार्थानां कामशोकभयादिषु / / 655 / / ___ अथ तत्रापि देशकालान्यथात्मकं बाह्यमेवालम्बनं, सर्वविज्ञानानां सालम्बनत्त्वात् / यद्यपि तदा तत्र न प्राप्यते तदैव तत्रैव माभूदन्यवान्यत्र तु नास्तीति किमत्र प्रमाणं। तथा हि घटो यत्र यदा नोपलभ्यते तदा तत्र नास्ति न तु सर्वत्र / / अत्रोच्यते / इहोपलभ्यमानस्य कथं देशादिनान्यता / नीलादित्वेन दृश्यस्य किमन्याकारतास्ति वः // 656 // यद्यन्यदेशोप्यन्यदेशतयोपलभ्यते नीलाकारोपि तथेति समानमेतत् / अन्याकारे प्रमाणाभावादन्यथा नेति परिहारेन्यदेशोन्यथेति समानः परिहारः। आकारे नास्ति बाधनं देशे तु बाघातिन स एव देशयोगी नास्ति न त्वाकारः। तत्र तर्हि निरालम्बनांततः सव्वं सालम्बनमित्यसिद्धं / ... नन सालम्बनत्वं तत्रापि यतः। .. . देशाधेयातिरेकेण न योगः कश्चिदीक्ष्यते / तयोरालम्बनत्वे च ज्ञानानालम्बता कथं // 657 / / ___देशतदाधेयाकार एव तत्र प्रतिभाति तयोश्च सत्त्वे किमनालम्बनं रूपं / नहि योगो परस्तयोरिति सालम्बनमेव सकलम्विज्ञानमिति /
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy