SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ ३४ Jain Education International અમૃતભાઈ પટેલ शार्दूलविक्रीडितम् ऐंद्रश्रेणिनतावतंसनिकरभ्राजिष्णुमुक्ताफल- । ज्योतिज्वलसदालवाललहरीलीलायितं पावितम् ॥ यपादाद्भुतपारिजातयुगलं भाति प्रभाभ्राजितं ॥ श्रीशंखेश्वरपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ॥१॥ यन्नामाभिनवप्रभूतसुमहो-धाराधरासारतः । कल्याणावलीवल्लरी कलयति प्रस्फूर्ज्जतां सान्द्रताम् ॥ भव्यानां भवदीयपादयुगलोपास्तिप्रसत्तिजुषाम् । श्रीशंखेश्वरपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ॥२॥ यद्ध्यानोत्कटचित्रभानुरनिशं नीरोत्करै दिद्युते । मुक्त दुष्टशठेन तेन कमठेनाऽनिष्टकृत्कर्मणा ॥ स्पष्टं जुष्टफणीफणामणिगणाऽऽश्लिष्टक्रमांभोरुहं । तं शंखेश्वरपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ॥३॥ दुर्यवनाधिकवातकंपितपरप्रौढप्रभावे महत् । यस्मिन् कालकरालिते कलियुगे कल्पान्तकालोपमे ॥ ज्रागच्चारुयशोभिराममलयोद्भुताभितः सौरभं । तं शंखेश्वरपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ॥४॥ श्रीमद्ध्यानविधानतानमनसां भव्यात्मनां भाविनां । यन्नामापि पिपर्ति पुण्यजनितान् कामान् मनोऽभीष्टकान् ॥ विश्वाशापरिपूरणाय किमिमं विश्वागतं स्वस्तरं । तं शंखेश्वरपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ॥५॥ श्रीमत्काप्यविलोकना मम करे स्फूर्जन्महासिद्धयः । संप्राप्ता सदामधीशविनुत ! प्राज्यप्रतिष्ठाः पुनः ॥ संजाता परमा-रमा सहचरी सौख्यं सदाऽऽलिंगितम् । श्रीमच्छंखपुरावतंस ! जिनप ! प्रौढ प्रभावाद्भुत ! ॥६॥ क्षीणाऽज्ञानभरो नतामरनरश्रेणिप्रयुक्तादरः । ध्वस्ताशेषदरस्तमोभरहरः कर्मदुमे मुद्गरः ॥ लोकोद्योतकरः स्मरज्वरहरः सौख्य-दु-धाराधरो 1 दद्याद् भूरितरप्रमोदनिवहं त्वन्नाममंत्राक्षरः ॥७॥ स्वग्धरा नष्टं दुष्टोग्रकर्माष्टककरटिगणै र्निर्गतं क्रोधमानप्रोद्यत्पञ्चप्रमादादिकचटुलतरक्षत्किरैः क्रूररूपैः ॥ For Private & Personal Use Only Nirgrantha www.jainelibrary.org
SR No.249330
Book TitleShankhpur Parshwanath Stotra
Original Sutra AuthorN/A
AuthorAmrut Patel
PublisherZ_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
Publication Year1996
Total Pages6
LanguageGujarati
ClassificationArticle & Stotra Stavan
File Size340 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy