________________
સુવર્ણાક્ષરી કલ્પસૂત્રની પ્રતિના અંતમાની વિસ્તૃત પ્રશસ્તિ
अस्याश्च करणीयानि तद्यथा
किंच |
इतश्र्व ॥
स्थाने स्थाने [s]र्हत्प्रतिष्ठा यात्रा - ऽऽचार्यपदादिषु । उत्सवाश्चक्रिरेऽमीभिः कस्तानन्यः करिष्यति ॥ १७ श्री लोकहिताचार्याः सागरचन्द्रसूरयः । श्रीभावप्रभसूरीन्द्राः श्रीजिनचन्द्रसूरयः ॥ १८ एते श्रीगुरु (र) वो [s] मीभिः स्थापयांचक्रिरे क्रमात् । लक्ष्मसिंह - जिणा साधु- धनपति - स्मरसिंहकैः ॥ १६ युग्मं ॥ देवकार्यं गुरोः कार्यं संघकार्यं स्वकार्यवत् । कुर्वतो धनपत्यादेः प्रशंसामः कियद्वयम् ॥ २०
विनयवती शीलवती दानवती सद्विवेक रंगवती । माणिकदेवी मल्हूभार्या जयतीह पुण्यवती ॥ २१ सा ग्रंथलक्षमेकं लेखितपूविण्युदारसच्चरिता । लेखयति स्म सुवर्णाक्षररम्यं कल्पसूत्रमिदम् ॥ २२
Jain Education International
वांद्रे कुले श्रीजिनचन्द्रसूरिः सिद्धान्तवेत्ता [s] भयदेवसूरिः । सद्वल्लभः श्रीजिनवल्लभोऽपि युगप्रधानो जिनदत्तसूरिः ॥ २३ भाग्याद्भुतः श्रीजिनचन्द्रसूरिः [ सूरि ]र्बभूवान् जिनपत्यभिख्यः । जिनेश्वरः सूरिरुदारचेताः जिनप्रबोधो दुरितापनेता ॥ २४ सांवेगिकः श्रीजिनचन्द्रसूरिः सूरिर्जिनादिः कुशला वसानः । पद्माश्रितः श्रीजिनपद्मसूरिर्लब्धेनिधानं जिनलब्धिसूरिः ॥ २५ महोपकारी जिनचन्द्रसूरिजिनोदयः सूरिरुदग्रभाग्यः । प्रशान्तमूर्तिजिनराजसूरिर्युगप्रधाना जिनभद्रसूरयः ॥ २६ ततोऽपि च श्रीजिनचन्द्रसूरयः नयोज्ज्वलाः शासति गच्छमात्मनः । तेषामधीनं किल कल्पपुस्तकं माणिक्यदेवी कुरुते स्म भक्तितः ॥ २७ प्रतिवर्षं महाहर्षान्महोत्सवपुरःसरम् ।
वाच्यमानं चिरं सद्भिर्नन्दतात् कल्पपुस्तकम् ॥ २८
संवत् १५१७ वर्षे श्रीअणहिल्लपुरपत्तने सा० मल्हूभार्यया माणिकदे श्राविकया पुस्तकमिदं लेखितं चिरं नंदतु ॥ छ ॥ कृतिरियं श्रीसिद्धान्त रुचिमहोपाध्यायशिष्य साधुसोमगणेरिति भद्रम् ॥ छ ॥ श्रीशुभं भवतु ॥ कल्याणमस्तु ॥ छ ॥ श्रीः ॥
[ २०८
ઉપર આપેલી વિસ્તૃત પ્રશસ્તિ ઐતિહાસિક હકીકતા કરતાં મંત્રી પદ્મ=પદ્માકના વક્ષો અને ખતર્ગીય સમર્થ આચાર્યાંનાં નામેાથી જ ભરાયેલી છે. એટલે આ આખી પ્રશસ્તિનેા શબ્દશઃ અનુવાદ આપવા કરતાં તેમાંની ખાસ ખાસ હકીકતાનુ તારણ આપવું એ જ વધારે ઉચિત અને સંગત છે એમ માની એ જ અહી આપવામાં આવે છે.
ज्ञाना. २७
For Private & Personal Use Only
www.jainelibrary.org