________________
९६
(७) चतुस्त्रिंशद्वर्षधर पर्वताः । कतमा : ? पञ्च हिमवन्तः । पञ्च महाहिमवन्तः । पञ्च निषध ( धा) : । पञ्च नीला ( : ) । पञ्च रुक्मिणः । पञ्च शिखरिणः इषुकारपर्व्वताः ॥
चत्वार
:
(८) पञ्चदश कर्म्मभूमयः । कतमा ? 1 पञ्च भारतिकाः । पञ्चे ऐरावतिकाः । पञ्च महावैदि (देहि) का: । पञ्चोत्तरकौरविकाः । पञ्च देवकौरविकाः ।
[ अत्रैवं पाठः सम्भाव्यते - " पञ्चदश कर्मभूमयः । कतमा: ? । पञ्च भारतिका: । पञ्च ऐरावतिकाः । पञ्च महावैदेहिका: । एताः पञ्चदश कर्मभूमयः ||
त्रिंशद् भोगभूमयः । कतमाः ? पञ्च हैमवताः । पञ्च हारिवर्षाः । पञ्च राम्यकाः । पञ्च हैरण्यवताः । पञ्च देवकौरविकाः । पञ्चोत्तरकौरविकाः ।] एतास्तूंस (स्त्रिंश) द् भोगभूमयः ॥
(९) सप्त धर्म्मभूमयः । कतमा: ? । रत्नप्रभा । स (श) वर्कशप्रभा । वालुकप्रभा । पङ्कप्रभा । धूमप्रभा । तमप्रभा । महातमप्रभा । एता ( : ) सप्त धर्म्मभूमयः ॥
I
(१०) सप्त महानरकाः । कतमा: ? । कालः । महाकालः । रौरव: । महारौरवः । असिपत्रवनम् । कूटशाल्मलिः । कुम्भीपाकश्चेति । एते सप्त महानरकाः ॥
(११) चतुर्दश कुलकराः । कतमाः ? सनुमति: ( ? ) प्रश्रुतिः । क्षेमंकरः । क्षेमन्धरः । सीमङ्करः । सीमन्धरः । विमलवाहनः । चक्षुष्मान् । यशस्वी | अभिचन्द्रः । चन्द्राभः । प्रसेनजित् । मरुदेवः । नाभिश्चेति । एते चतुर्दश कुलकराः ||
(१२) चतुर्विंशति तीर्थकराः । कतमाः ? । ऋषभः । अजित: । सम्भवः । अभिनन्दः । सुमतिः । पद्मप्रभः । सुपार्श्व: । चन्द्रप्रभः । पुष्पदन्तः । शीतलः । श्रेयांसः । वासुपूज्यः । विमलः । अनन्तः । धर्म्मः । शान्तिः । कुन्थुः । अरुः । मल्लिः । मुनिसुव्रतः। नमिः । अरिष्टनेमिः । पार्श्व: । वर्धमानश्चेति । एते चतुर्विंशतितीर्थकराः ॥
I
(१३) नव बलदेवाः । कतमा: ? । विजयः । अचलः । सुधर्म्मः । सुदर्शनः । नन्दकः । नन्दिमित्रः । रामः । पद्मश्चेति । एते नव बलदेवाः ॥
(१४) नव वासुदेवाः । कतमा: ? । त्रिपिष्ठः । द्विपिष्ठः । स्वयम्भूः । पुरुषोत्तमः । पुरुषसिंहः । पुरुषपुण्डरीकः । दत्तः । नारायणः । विष्णुश्चेति । एते नव वासुदेवा: ॥ (१५) नव प्रतिवासुदेवाः । कतमा ? | अश्वग्रीवः । तारकः । मेस्क: । निसु (शु) म्भः । बलिः । प्रह्लादः । मधुकीटकः । रामणः । जरासिन्धुश्चेति । एते नव प्रतिवासुदेवाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org