________________
९७
(१६) एकादश रुद्राः । कतमाः? । भीमावलिः । जितशत्रुः । रुद्रः। विश्वानलः। सुप्रतिष्ठः । अचलः । पुण्डरीकः । अजितधरः । अजितनाभिः । प्रढालः । सातकिसुतश्चेति। एते एकादस(श) रुद्राः ॥
(१७) द्वादश चक्रवर्तिनः । कतमाः? भरतः । सगरः । मघवा । सनंतकुमारः। शान्तिः । कुन्थुः । अरु: । सुभूमः । पद्मः । हरिषेणविजयः । ब्रह्मदत्तश्चेति । एते द्वादशः। चक्रवर्तिनः ॥
(१८) नव निधय(:)।कतमाः? । नैसर्पः । माणवकः । पिङ्गलः । पाण्डुकः। काल। महाकालः । पद्मः । शङ्खः । सर्वरत्नश्चेति । एते नव निधयः ।
(१९) चतुर्दश रत्नानि । कतमानि ? चक्रं । छत्रं । चर्म । मणिः । काकणिः। खड्ग । दण्डः । हयः । गजः।सेनापतिः। उपरोहितः(पुरोहितः) ।ग्र(गृहपतिः । स्थपतिः। कन्याश्चे(चे)ति । एवं चतुर्दश रत्नानि । (२०) द्विविधः पुद्गलः।स्कन्धः। परिमाण(परमाणु)श्चेत्येष द्विविध(:) पुद्गलः।।
इत्यहत्प्रवचने तृतीयोऽध्यायः समाप्तः ॥
___ चतुर्थोऽध्यायः ॥ देवाश्चतुणिकायाः। भवनवासिनो दशविधाः।व्यन्तरा (अ)ष्टविधाः ज्योतिष्काः पञ्चविधाः । वैमानिका द्विविधाः । कल्पस्थितिका अहमिन्द्राश्चेतिः। पञ्चानुत्तराः । पञ्च जीवगतयः षट् पुद्गलगतयः। अष्टविधश्चात्मसद्भावः । पञ्चविधं शरीरम् । अष्टगुणा रिद्धिः पञ्चेन्द्रियाणि । षट् लेस्याः(श्याः) । द्विविधं शीलम् ।
इत्यर्हत्प्रवचने चतुर्थ सूत्रं समाप्तम् ।। (१) देवाश्चतुर्निकायाः।कतमा:? । भवनवासिनो(नः)।व्यन्तराः।ज्योतिष्का:। वैमानिकाः । एते चतुर्निकायाः ॥
(२) भवनवासिनो दशविधाः । कतमाः ? असुरकुमाराः । नागकुमाराः । सुवर्णकुमाराः । अग्निकुमाराः । वायुकुमाराः । स्तनितकुमाराः । विद्युत्कुमाराः । उदधिकुमाराः । द्वीपकुमाराः । दिक्षु(क्) कुमाराः । एते भवनवासिनो दशविधाः ॥
(३) व्यन्तरा [अष्टविधाः । कतमाः ? । किनरः । किम्पुरुषः । महोरगः।। गन्धर्वः । यक्ष: । राक्षस: । भूतः । पिसा(शा)चाश्चेति । एते व्यन्तरा (अ)ष्टविधा :।।
(४) ज्योतिष्काः पञ्चविधाः । कतमाः ? सूर्य(1) चन्द्रमसौ ग्रहनक्षत्र प्रकीर्णकताराकाश्चेति । एते ज्योतिष्काः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org