________________
(१०) बावीस(द्वाविंशति)परीस(ष)हाः।कतमा :? ।क्षुत्परीषहः पिपासा परीस(ष)हः । सी(शी)तपरीषहः । उष्णपरीषहः । मस(श)कपरीषहः । नग्नपरीषहः । रतिअरतिपरीषहः स्त्रीपरीषहः। चर्यापरीषहः।निद्रा(निषद्या?) परीषहः।सज्या(शय्या)परीषहः। आक्रोशपरीषहः।वधबन्धपरीषहः। अयाचनापरीषहः। अलाभपरीषहः। रोगपरीषहः। तृणस्पर्श [परीषह: मलपरीषहः अस्नानपरीषह:(?)।सत्कारपरीषहः। पुरस्कारपरीषहः । (सत्कारपुरस्कार परीषहः?) प्रज्ञा परीषह:] । अज्ञानपरीषहः । सम्यक्त्वपरीषह श्चेति । एते द्वाविंशतिपरीषहाः ॥
इत्यर्हत्प्रवचने प्रथमोऽध्यायः समाप्तः ॥ ॥
द्वितीयोऽध्यायः नव पदार्थाः। [सप्त तत्त्वानि] । चतुर्विधो न्यासः । सप्त नयाः । चत्वारि प्रमाणानि। षट्( ड्) द्रव्याणि । पञ्चास्तिकायाः। द्विविधो गुणः । पञ्चज्ञानानि । त्रीणि अज्ञानानि । चत्वारि दर्शनानि । द्वादशाऽङ्गानि । चतुर्दश पूर्वाणि । द्विविधं तपः। द्वादश प्रायश्चितानि । चतुर्विधो विनयः। दश वैयावृत्ता(त्या)नि। पञ्चविधो(धः) स्वाध्यायः। चत्वारि ध्यानानि । द्विविधो व्युत्सर्गः ॥ इति अर्हत्प्रवचने द्वितीयं सूत्रम् ।।
अतो विवरः । (१) नव पदार्था (:)। कतमाः ?। जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षाश्चेति । एते नव पदार्था : ।।
(२) सप्त तत्त्वानि । कतमानि ? । जीवाजीवाश्रवसंवर निर्जराबन्धमोक्ष(क्षा)श्चेति । एतानि सप्त तत्वानि ॥ . . (३) चतुर्विधो न्यासः । [कतमः? I] नामस्थापनाद्रव्यभावतश्चेति । स एष चतुर्विधो न्यासः ॥
(४) सप्तनयाः।कतमाः? ।नैगमसङ्ग्रहव्यवहार ऋजुसूत्रशब्दसममिल्दैवम्भूता नयाः । नैगमो द्विभेदः देशग्राही । सकलग्राही । शब्दस्तु द्विभेदः । समभिरूढः । समभिरूढः। एवंभूतः । इत्येष सप्तनया(य) भेदः ॥ (?)
(५) चत्वारि प्रा(प्र)माणानि । कतमानि ? प्रत्यक्षम् । अनुमानम् । उपमानम्। आप्तवचनम् । एतानि चत्वारि प्रमाणानि । प्राधान्येन द्वे एव प्रमाणे । प्रत्यक्षं परोक्षं चेति।।
(६) षट् (ड्दव्याणि । क्तमानि ? । जीवः । पुद्गलः । धर्माः । अधर्मः । आकास(श:)काल(:) । इति षट(ड्) द्रव्याणि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org