________________
९३
(७) पञ्चाऽस्तिकायाः । कतमा: ? । जीवकाय (जीवास्तिकायः) । पुद्गल(लास्ति ) काय ( : ) । धर्म्माधर्म्मकाय ( धर्मास्तिकायः । अधर्मास्तिकायः) । आकाश-(शास्ति) कायमि (य इ ) ति ।
I
चतुर्भिः प्रमाणैः जीवति जीविष्यति जीवितपूर्वो वा जीवः । पूरणात् पुद्गलः । पूरयति गालयतीति वा पुद्गलः । धर्मास्तिकायो गतिलक्षणः । अधर्म्मास्तिकायः स्थितिलक्षणः । आकाशास्तिकायश्चावगाहनालक्षणः । एते पञ्चाऽस्तिकायाः ||
(८) द्विविधो गुणः । कतमः ? । जीवगुणः अजीवगुणश्चेति । एवं द्विविधो गुणः ॥ (९) पञ्च ज्ञानानि । कतमानि ? । मतिज्ञानम् । श्रुतिज्ञानम् । अवधिज्ञानम् । मनः पर्यवज्ञानम् । केवलज्ञानं चेति । एतानि पञ्च ज्ञानानि भवन्ति ॥
1
(१०) त्रीणि अज्ञानानि । [ कतमानि ? ।] मत्यज्ञानम् । श्रुताज्ञानम् । विभङ्गाज्ञानं चेति । एतानि त्रीणि अज्ञानानि ।
(११) चत्वारि दर्शनानि । कतमानि ? । चक्षुद (र्द) र्शनम्। अचक्षुद (र्द) र्शनम् । अवधिदर्शनम् । केवलदर्शनमिति । एतानि चत्वारि दर्शनानि ॥
(१२) द्वादशऽङ्गानि । कतमानि ? आचारः । सूत्रकु (कृ) त: । स्थानम् । समवायः । व्याख्याप्रज्ञप्ति: । ज्ञातृकथा | उपासकाध्ययनम् । अन्तकु(कृ) दशा। अनुत्तरो (रौ) पया (पा) - दिकंद (कदशा :) | प्रश्नव्याकरणम् । विपाकसूत्रम् । दृष्टिवादं च । एतानि द्वादशाऽङ्गानि ॥ (१३) चतुर्दश पूर्व्वाणि । कतमानि ? । उत्पादपूर्व्वम् । अग्रायणीयम् । वीया(र्या) नुप्रवादम् । नास्तिप्रवादम् । ज्ञानप्रवादम् । सत्यप्रवादम् । आत्माप्रवादम् । कर्म्मप्रवादम् । प्रत्याख्याननामधेयम् । विद्यानुप्रवादम् । कल्याणनामधेयम् । प्र (प्रा) णावायम् । क्रियाविसा (शा) लम् । लोकबिन्दुसारं चेति । एतानि चतुर्दश पूर्व्वाणि ||
I
(१४) द्विविधं तपः । कतमा : (मम् ) ? । बाह्या (ह्ययम) भ्यन्तरं चेति । बाह्यं तपः षड्विधम् । अनस (श) नम् । अवमौदर्यम् । वृत्तिपरिसंख्यानम् । रसपरित्यागः । कायकिलेस - (क्लेशः) । विविक्तस (श) य्यासनमिति । अभ्यन्तरं षट् (ड्) विधम् । प्रायश्चित्तम् । विनयो (यः) । वैयावृत्तम् । स्वाध्यायो (यः) | ध्यानम् । व्युत्सर्गश्चेति । एतद् द्विविधं तपः ॥
(१५) द्वादश प्रायश्चित्तानि । कतमानि ? | अर्द्धमासिकसमुद्धातम् । मासिकसमुद्घातम् । द्विमासिकसमुद्घातम् । त्रमासिकसमुद्घातम् । चतुर्मासिकसमुद्घातम् । पञ्चमासिकसमुद्धातम् । षण्मासिकसमुद्घातम् । एक आलोचनार्हः । एक उपस्थापनार्हः । एक: प्रतिक्रमणाः । एकः कृपायोग्यार्हः । एकः कायोत्सर्गार्हः । एतानि द्वादश प्रायश्चित्तानि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org