________________
१०४
अनुसन्धान-५६
मिद्यते । तथा ड्यदृशमिति । अडिवात्(ङि) ऋवर्णान्तं दृशं च विहायेति सम्बन्धः । तत्र न कितीति न प्रवर्त्तते इत्यर्थः, किन्तु ऋवर्णान्तानां दृशेश्चाऽपि डिपरतो गुणो भवतीत्यर्थः । शकलाङ्गष्टकोऽकरत् अहं तेभ्योऽकरं नमः (?)। असरत्, आरत्, जरा । दृशेः- अदर्शत्, अदर्शतां, अदर्शन्निति ।
लिटि च संयोगादिमृतं तथेति । लिटि च परोक्षे संयोगादिसंयुक्तादिमृतं- ऋकारान्ताङ्गमपहाय न कितीति निषेधः प्रवर्त्तते । तत्र तु 'ऋतश्च संयोगादेर्गुणः' [७/४/१०] इति गुणो भवति । यथा- स्वृ शब्दोपतापयोः [पाणि. धा. ९९८]- सस्वरतुः, सस्वरुः । धृ कौटिल्ये [पाणि धा. १००५]दध्वरतुः, दध्वरुः । स्मृ स्मरणे [पाणि धा. ८५९]- सस्मरतुः, सस्मरुः । ऋत इति किं ? चिक्षियतुः, चिक्षियुः । संयोगादेरिति किं? चक्रतुः, चक्रुः । वृद्धिविषये तु वृद्धिरेव भवति । विप्रतिषेधेन संयोगोपधस्याऽपि लिटि गुणो भवतीति विज्ञेयं- संचस्करतुः, संचस्करुः । अत्र हि पूर्वं धातुः साधनेन युज्यते, पश्चादुपनतोपसर्गेणेत्यत्र दर्शने लिटि कृते तदाश्रये च द्विर्वचने पश्चादुपसर्गयोगे सत्यभ्यासव्यवायेऽपीति [पाणि. वा. २५३९] सुडिह क्रियते । एवंकृत्वा संस्कृषीष्टेत्यत्र सुटो बहिरङ्गलक्षणस्याऽसिद्धत्वात् 'ऋतश्च संयोगादे'रिति[७/२/ ४३] इडागमो न भवति ॥४॥
ऋच्छत्य॒तश्च याद्येषु, लिङ्-यङ्यक्षुपरेषु च ।
संयोगादिं तथाऽत्र्तिं च, दिधीवेव्योरिटश्च न ॥५॥
व्याख्या : ऋच्छय॒तश्चेत्येतान् विहायेति प्राग्वत् । चकारेण लिटीत्यनुकृष्यते । ततश्च लिटि परोक्षे ऋच्छतेरङ्गस्य ऋ-इत्येतस्य ऋकारान्तानां च गुणो भवतीत्यर्थः । ऋच्छ- आनछु, आनछुतुः, आनछुः । ऋ- आर, आरतुः, आरुः । ऋकारान्तानां- कृ विक्षेपे [पाणि. धा. १५०२]- निचकरतुः, निचकरुः । गृ निगरणे [पाणि. धा. १५०३]- निजगरतुः, निजगरुः । ऋच्छेरलघूपधत्वात् सर्वथाऽप्राप्तो गुणो विधीयते । ऋतां तु न कितीति प्रतिषेधे । वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेष्यते- निजगार ।
याद्येषु लिङ्यङ्यक्षु परेषु च संयोगादि तथाऽतिं चेति च- पुनः याद्येषु लिङ्-यङ् –यक्षु परेषु संयोगादिं तथाति च परित्यज्य न कितीति १. ऋदृशोऽङि गुणः - ७/४/१६ २. ऋच्छत्यताम् - ७/४/११