________________
ओगस्ट २०११
प्रतिषेधः प्रवर्त्तते इति सण्टङ्कः । अर्तेः संयोगादेश्च ऋत: निषेधं प्रतिषिध्य गुणो भवतीत्यर्थः।' लिङीति आशीषिविहितलिडादेशा आर्धधातुकसंज्ञका गृह्यन्ते । लिङि- अर्यात् । संस्क्रियते, संस्क्रियात् । इह सुटो बहिरङ्गलक्षणस्याऽसिद्धत्वात् अभक्तत्वाद् वा संयोगादित्वं नाऽस्तीत्यङ्गस्य गुणो न प्रवर्त्तते । यङिअरार्यते, सास्वर्यते, दीध्वर्यते, सास्मर्यते । अर्तेरङयर्त्यश्रृणोतीनामुपसंख्यानामिति यङ्नन्द्राः संयोगादय इति द्विर्वचनप्रतिषेधो यकारपरस्य नेष्यते इति (?) । यकि- अर्यते, स्मर्यते । याद्येष्विति संभवाद् व्यभिचाराच्च विशेषणं भवतीति । लिडो व्यभिचाराद् विशेषणम्, आत्मनेपदे सीष्टादौ लिडादेशत्वेऽपि यादित्वाभावाद् गुणो न प्रवर्त्तते । यङ्यको: संभवाद् विशेषणं, व्यभिचाराभावात् ।
१०५
न ङ्कितीत्यस्याऽपवादा:- दीधीवेव्योरिटश्च नेति । दीधीङ् दीप्तिदेवनयो: [पाणि धा. ११५२] वेवीङ् वेतिना तुल्ये [पाणि धा. ११५३] । इट—श्चाऽऽ ऽर्धधातुकस्येड्वलादेः ' [ ७ / २ / ३५ ] इत्यादिना प्रकरणेन विहित आगमस्तस्य च गुणवृद्धी न भवति (त:), निमित्तानुपादानात् सर्वत्रेति भावः । वृद्धिरिटो न संभवति, [परं] यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गमिति परिभाषया इटोऽप्यङ्गेऽन्तर्भावात् अकारिषमित्यादौ लघूपधगुणः प्राप्तः सोऽनेन प्रतिषिध्यते । श्व: कणिता, श्वो रणितेत्यादावन्त्यस्य गुणे प्राप्ते निषेधः । आदीध्यनं, आदीध्यकः, आवेव्यनं, आवेव्यकः । गुणवृद्धयोरभावादेरनेकाचोऽङ्गस्य यण् । 'इको गुणवृद्धी' [१/१/३] इत्यतो गुणवृद्धीति पदमनुवर्त्तते ॥५॥
सर्वत्र न धातुलोपे, स भवेदार्धधातुके । परस्मैपदे सिचीगन्ते, वृद्धिर्भवति बाधिका ॥६॥
व्याख्या :- ते इति गुणवृद्धी सर्वत्र धातुलोपे आर्धधातुकेतिशिद्व्यतिरिक्ते प्रत्यये न भवेत्, निमित्ते सत्यपि । क्डिद्व्यतिरिक्ते सार्वधातुकार्धधातुकप्रत्यये निमित्तं तस्मिन् सत्यपि तद्विधायकं सूत्रं न प्रवर्त्तते इत्यर्थः । धातुलोप इति अवयवे समुदायोपचाराद् धात्वेकदेशो धातुस्तस्य लोपो
२. दीधीवेवीटाम् - १/१/६
१. गुणोऽर्त्तिसंयोगाद्योः
७।४।२९
३. एरनेकाचोऽसंयोगपूर्वस्य ६/४/८२
४. टीकायां ‘स’ स्थाने 'ते' इति प्रतीकोपादानम्, पुनः तत्सम्बन्धि क्रियापदं ‘भवेत्' इत्येव निर्दिष्टमित्यसमञ्जसता कथं समाधेयेति विद्वद्भिश्चिन्तनीयम् ।