________________
ओगस्ट २०११
१०३
ङिति यत् कार्यं तल्लादेशेषु न भवतीति ङितो यत् कार्यं 'नित्यं डित' [३/ ४/९९] 'इतश्चे' [३/४/१००] त्यादिकं तद् भवत्येव । नाभ्यस्तस्येति एतदिहानुवर्त्तते, योयोति, नोनोति इत्येवमाद्यर्थम् ।
विभाषोर्णोरिति' वृद्धिरित्यनुवर्तते हलादौ पिति सार्वधातुके लुकि इति च । ततश्च हलादौ पिति सार्वधातुके लुकि सति ऊर्णोतेविभाषा वृद्धिर्भवतीत्यर्थः। प्रो}ति, प्रोर्णोति, प्रोर्णोषि, प्रो#षि, प्रोर्णोमि, प्रो#मि । हलीत्येव- प्रार्णवानि ।
गुणोऽपृक्ते इति [७/३/९१] ऊर्णोते तोरपृक्ते पिति हलि सार्वधातुके गुणो भवति । प्रौर्णोत्, प्रौर्णोः। हलीत्यनुवर्तमाने यत् पृक्तग्रहणं क्रियते तेन तज्ज्ञाप्यते, भवत्येषा परिभाषा यस्मिन् विधिस्तदादावल्ग्रहणे इति पूर्वेण विभाषाबाधे नित्यार्थमिदम् ।
न क्डिति क्वचनाऽपि हीति । क्ङितीति निमित्तसप्तम्येषा, क्ङिन्निमित्तो यो गुणः प्राप्नोति स न भवति ।२ चितं, चितवान्, स्तुतं, स्तुतवान् । ङिति खल्वपि- चिनुतः, चिन्वन्ति । गकारोऽप्यत्र चर्वभूतो निर्दिश्यते । 'ग्लाजिस्थश्च ग्स्नुः' [३/२/१३९], जिष्णुः ॥३॥
विहायैतान् वक्ष्यमाणान्, जुसीगन्तं मिदि शिति ।
तथा ड्यूदृशं लिटि च, संयोगादिमृतं तथा ॥४॥
व्याख्या : विहायैतान् वक्ष्यमाणानिति । योऽयं 'न किती'ति निषेधः सः वक्ष्यमाणानपवादान् विहाय- परित्यज्य । तानेवाऽऽह
जुसीगन्तमिति । जुसि प्रत्यये परतः इगन्तमङ्ग विहाय, तस्मिन् गुणो भवतीत्यर्थः । अजुहवुः, अबिभयुः, अबिभरुः । अथ विनुयुः, सुनुयुरित्यत्र कस्मान्न भवति, अत्र द्वे ङित्त्वे सार्वधातुकाश्रयं यासुडाश्रयं च । तत्र नाऽप्राप्ते सार्वधातुकाश्रयङित्त्वनिमित्ते प्रतिषेधे जुसि गुणः आरभ्यमाणस्तमेव बाधते । यासुडाश्रयङित्त्वनिमित्तं तु न बाधते, तत्र हि प्राप्ते चाऽप्राप्ते चाऽऽरभ्यत इति ।
मिदि शितीति मिदि- मेद्यति शिति प्रत्यये विहाय । तत्र हि शिति प्रत्यये परतो मिदेरङ्गस्येको गुणो भवति । यथा- मेद्यतिः, मेद्यन्ति । शितीत्येव१. ऊर्णोतेर्विभाषा - ७/३/९०
२. क्डिति च - १/१/५ ३. खल्वपीति समस्तमव्ययं यथार्थे - ह.टि. ४. जुसि च - ७/३/८३ ५. मिदेर्गुणः - ७/३/८२