________________
फेब्रुअरी २०११
५. धर्मलक्ष्मीमहत्तरास्तुति ( सटीक )
॥ए ६०॥ प्रणम्य विज्ञातसमस्तभावं, श्रीस्तम्भनाधीशमुरुप्रभावम् । महत्तरां नौमि गुणैरुदारां, श्रीधर्मलक्ष्मीं विजितासदाराम् ॥१॥ आरं - अरिसमूहो यया ।
१. विजितं असत् - अप्रधानम्,
रत्नाकरप्राप्तपदऽर्थदांत्री, नालीकँवासा जिनभक्तिकर्त्री । या राजते मूर्त्तिमतीव लक्ष्मी - महत्तरा नन्दतु धर्मलक्ष्मीः ॥२॥
११३
१. रत्नाकराभिधे गच्छे प्राप्तं पदं स्थानं यया ।
२. अर्थः शास्त्रार्थः, द्रव्यं च ।
३. अलीक:-मिथ्या वासो यस्याः सा अलीकवासा, सा ईदृशी न । लक्ष्मीपक्षे नालीकेकमले वासो यस्याः ।
४. जिन: - वीतरागः, कृष्णश्च ।
बहुधन्यहितां वरसंवरैंदां, जिनैंसत्क्रमगां सुविचारपदाम् । विबुधा' हि भजन्ति यदीयगिरं, खर्धुनीमिव जीवतु सा सुचिरम् ॥३॥
१. खधुनीमिव गङ्गामिव ।
२. बहुधा - [बहु] प्रकारेण अन्येभ्यो जीवेभ्यो हिता - हितकर्त्री, पक्षे बहुभिर्धान्यैः-सस्यैर्हिता । ३. संवरः-आश्रवनिरोधः, पक्षे शम्बरं - पानीयं, दन्त्योपदिष्टं तालव्यस्याऽपि इति न्यायात्, बवयोरेकत्वाच्च ।
४. जिनस्य - वीतरागस्य क्रमः - आचारः, तं गच्छतीति, पक्षे जिनस्य - कृष्णस्य क्रमः लक्षणया दक्षिणः पादः, तस्माद् गच्छतीति ।
५. सुविचारं पदं स्याद्यन्तं त्याद्यन्तं यस्यां सा, पक्षे शोभनो यो वीनां - हंसादिपक्षिणां चारःपरिभ्रमणम्, तस्य पदं स्थानं यस्याम् ।
६. विबुधा: - विद्वांसः, देवाश्च ।
वरालङ्कृतिंर्भव्यभावभिरामा, सुविन्यस्तपादा स्वैरव्यञ्जनाढ्या । नरीनर्त्ति कालन्दिका' नर्त्तिकीवद्, यदीयास्यवेश्मागणे साऽस्तु भूत्यै ॥४॥
१. अलङ्कृतिः-अलङ्कारशास्त्रम्, पक्षे विभूषणम् ।
२. भावा- भाग्यरूपा, पक्षेऽनुभावाः ।
३. शोभनाः विन्यस्ताः पादाः श्लोककाव्यादिविरचनया यस्यां, पक्षे पादौ चरणौ ।
४. स्वराः-१४ व्यञ्जनानि - ३३ तैराढ्या, पक्षे स्वरस्य - [शब्द ] स्य व्यञ्जनं-प्रकटनम्, तेनाऽऽढ्या-समृद्धा ।