________________
३८
अनुसन्धान- ५९
नैयायिको प्रदीपने अकान्ते अनित्य अने आकाशने अकान्ते नित्य माने छे. ओनी सामे जैनो ते बन्नेने स्वस्वरूपे (प्रदीपत्व अने आकाशत्व रूपे) नित्य अने प्रतिक्षणे बदलातां परिणामोनी अपेक्षाओ अनित्य गणे छे. प्रदीपनित्यत्वव्यवस्थापन अने व्योम्नो नित्यानित्यत्वव्यवस्थापन- मां आज कथंचिद् नित्यानित्यत्वनी सिद्धि करवामां आवी छे.
‘प्रमाणसाधनोपायनिरास' मां प्रमाण जेवी कोई साध्यने सिद्ध करनारी चीज होती ज नथी तेम सिद्ध करवामां आव्युं छे.
वज्रशूचीप्रकरण बौद्धाचार्य अश्वघोष विरचित छे. आ प्रकरणमां ब्राह्मणत्व ओटले शुं ?, शूद्रो ब्राह्मणो करतां नीच गणाय के नहीं ?, चातुर्वर्ण्य जन्मथी गणाय के कर्मथी ? वगेरे प्रश्नो पर विचार करवामां आव्यो छे. ब्राह्मणोनी रूढिचुस्त वर्णव्यवस्था पर अमनां ज धर्मवचनोथी आकरा प्रहार करवामां आव्या छे.
अन्ते, आ प्रकरणो अभ्यासीओने आनन्द आपशे तेवी आशा साथे विरमुं छं.
*
*
*
सर्वज्ञसिद्धिः (-अजितसिंहसूरिजी )
मीमांसाविदः सर्वविदः प्रतिषेधार्थमनुमानमिदमभिदधते । यथा नाऽस्त्येव सर्ववेत्ता, प्रमाभिरनुपलभ्यमानत्वात्, यद् यद् न प्रमाभिरुपलभ्यते तत् तदसदिति व्यवहर्तव्यं, यथा नभः पद्मिनीपुष्पसौरभं नोपलभ्यते, तथा पुनरसौ सर्ववेत्ता, तस्माद् नाऽस्तीति व्यवहर्तव्यः सर्ववेत्तेति ।
दोषोद्धारो यथा - 'नाऽस्त्येव सर्ववि' दिति साध्यं पदं स्वशब्दविरुद्धादिदोषविहीनम् । पुनरेतत् प्रमाभिरनुपलभ्यमानत्वादिति हेतु: असिद्धविरुद्धतादिदोषैरदूष्यः । तथाहि स यदि सर्ववेत्ता देशाद्यन्तरितोऽपि विद्वद्भिर्दृश्यते तदा ह्यसिद्धो हेतुः स्यात् । नाऽपि विरुद्धो हेतुः प्रतिषेधविरुद्धस्य सर्ववेत्तुरसाध्यमानत्वात् । नाऽपि तृतीयदोषः समुल्लसति, अनुपलभ्यमानस्याऽपि सर्वविदो यदि विद्यमानता भवेत् । तस्माद् निर्दोषोऽनुपलभ्यमानत्वादिति हेतुः । यद् यद्