________________
जून - २०१२
नोपलभ्यते तत् तदसदिति व्याप्तिरपि सर्वदर्शनवतां सम्मता । उदाहृतिरपि एषा निर्दोषतामासादयति । उपनयोऽपि न्याय्यो विदधे । अवसायोऽप्ययमवसितत्वाददोषः । इति प्रतिपादयामासे दोषोद्धारः ।।
तथा प्रमाभिरनुपलभ्यमानत्वादिति हेतुर्भाव्यते । यथा - स्पर्शनसंवेदसने (वेदने)न नृपहंसरूतपूरिततूल्यादीनामेव मृदुत्वादेरुपलम्भः, न तु मृद्वादिरूपः सर्ववित् । रसनेनाऽपि मधुराम्लादीनामेव फलावस्थितानां वेदनं तेन, न पुनरसौ अम्लादिरूपः । नासया पुनः शाल्योदनादिपरिमलस्योपलम्भो, न पुनरयं तीर्थकृत्परिमलस्वरूपः । रूपसंवेदनेनाऽपि हस्त्यादिवदेष नोपलभ्यते । श्रोत्रं पुनर्भम्भाभेरीशब्दानामुपलम्भनायाऽलं, नाऽप्यसौ तीर्थपतिर्भवदीयः शब्दस्वरूपः, येन श्रोत्रसंवेदनेन संवेद्यः स्यात् ।
अनुमानमपि नाऽत्र प्रवर्तते । तद्धि हेतुदर्शनात् साध्यस्य प्रतिपत्तये बोभवतीति । यथा नभोवाहिनीं धूमलतां विदित्वा अधस्तात् वह्निसम्भवः स्यात् । नाऽत्र हेतुरुपलभ्यते सर्ववेतृसिद्धये । तस्माद् नाऽनुमानं तद्विषये वरीवृत्यते । ___नाऽपि शाब्दमत्रोत्सहते । वितथमपि सम्भाव्यते विप्रतारयितृपुरुषस्येव ।
नाऽप्युपमानं समुल्लसति । तद्धि दृश्यमानयोर्द्वयोर्वस्तुनोः सादृश्याद् भवति, समुद्रवत् सरोवरमित्यादिषु स्यात् । नाऽपीह सर्वविदः सम्बन्धे सादृश्यं नयनविषये(यं?) सम्भाव्यते, अविद्यमानत्वात् तस्य ।
नाऽप्यपत्तिर्मानमत्रोल्लसति । यथा - पीनो देवदत्तो, न पुनः प्साति वासरे, अर्थाद् निशायां प्सातीत्यवधार्यते ।
तस्मादेषः संवेदनानामभावेऽभावसंवेदनस्यैव तीर्थनाथो विषयतां समासादयति । उक्तं च - "प्रमाणपञ्चकं यत्रे"त्यादि । इति मीमांसाविदां सर्ववेदनिषेद्धव्येऽभिप्रायः ।
अत्राऽर्थे वदन्ति प्रत्युत्तरमार्हताः प्रतिवादिनः । तथाहि - अनुपलभ्यमानत्वं हि वादिन् ! भवदीयम् आहोस्वित् सर्वेषामपि देहिनाम् ? तत्र यदि भवदीयं संवेदनं यत्र यत्र नोल्लसति तत् तद् नाऽस्तीति । एवं तर्हि