________________ 44 सम्भावयामि भवतस्तनुसम्भवेन , भामण्डलेन सितिना जिन ! भासुरेण / पूर्ण नभस्तलमिदं सकलं यदीति , नो तत्कथं मरकताभमिदं बभूव // 12 // व्योमस्थितरित्रदशदुन्दुभिरेष हृद्यः , पुंसां नदनिति विभो वदतीव नित्यम् / भो भो ! जगत्त्रयपतिर्जगदर्थवेदी , नाऽतः परोऽस्ति भुवने तदमुं श्रयध्वम् // 13 // लोकत्रयैकतिलकं प्रणमन्त्यमुं ये , ते कीर्तिकेवलशिवत्रयमाश्रयन्ते / कुन्देन्दुसुन्दरतरं त्रिजगज्जनानां , छत्रत्रयं तव निवेदयतीव देव ! ||14|| कुन्दावदातयशसं भगवन् ! भवन्तं , भिन्नेन्द्रनीलमणिनिर्मलकायकान्तिम् / कारुण्यपुण्यहृदयं हृदि यो बिभर्ति , यान्ति क्षणेन विपदः क्षयमीश ! तस्य // 15 // इति श्रीमत्पार्श्वक्षितिवलयविख्यातकरहे- / टकस्याऽलङ्कार ! त्रिभुवनपते ! नम्रशिरसाम् / सभावं स्तोतॄणां विदलय महामोहपटलं , घनं कर्मवातं हर वितर निर्वाणपदवीम् // 16 / / पूज्यभट्टारकप्रभुश्रीसोमतिलकसूरिविरचितं करहेटकमण्डनश्रीपार्श्वनाथस्तोत्रम् / / Jain Education International For Private & Personal Use Only www.jainelibrary.org