________________
43
॥६॥
ध्यानानलेन भवता भुवनाधिनाथ ! कर्मेन्धनं निधनमाप्यत पार्श्वनाथ ! त्वन्मूनि नागपतिसप्तफणामिषेण तेनेव धूमलहरी लसति प्रकामम् स्वामिन्नशोकतरुरेष जनानशोकान् धर्मं दिशन्निव रवैरलिनां करोति ॥ प्राज्यप्रभावभवनस्य भवादशस्य , सङ्गान के विमतयोऽपि भवन्ति तज्ज्ञाः? ॥७।। मन्ये पुरस्तव विकस्वरपञ्चवर्णजानुप्रमाणकुसुमप्रकरच्छलेन । विश्वाधिपस्य भवतो भयतः स्मरेणाऽऽमुच्यन्त पञ्चविशिखान् सविषादमीश! ॥८॥ दोषाकलङ्कजडताश्रयिण: सुधांशोः , साम्यं कथं भवतु ते वदनस्य देव ! । नित्यं श्रियः कुलगृहस्य हि यस्य गावस्तापं जनस्य शमयन्ति सुधायमानाः १९॥ त्रैलोक्यलोचन ! सुधाञ्जनचारुरूपं , चन्द्रांशुचारुचमरावलीरुत्तरन्ती । मौलेगिरेरिव नदी जलपूरपूर्णा , पार्श्वद्वयेऽपि तव देव ! विभाति शुभ्रा ॥१०॥ भित्त्वा विभो ! नर-सुरा-ऽसुरसंसदोऽसौ , सिंह: सुवर्णमणिनिर्मितमासनं ते । संश्रित्य विज्ञपयतीवं यथा भवाब्धे` नाथ ! तारय पशुं पशुजात्युपेतम्
||११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org