________________ October-2007 23 स्यादित्यादि-तदपि न; मांसशब्दस्य स्वयंस्वीकृतफलगर्भविशेषार्थस्याऽस्मरणात् / एतेनाऽर्थः प्रकरणमित्यादिसिध्यत्यन्तमपास्तमवसेयम् / एवं शक्यार्थेनैव निर्वाहे लक्षणाविषयकचर्चाया अनुदय एव / यच्चोक्तं - दशमोद्देशके भोजनपानयोः प्रस्तुतत्वाच्चिकित्साया अभावाच्च न भुजिर्बाह्यपरिभोगार्थो गृह्यते - तदप्यापाततः, अत्रैव पिण्डैषणाप्रकरणेऽप्रस्तुतस्याऽपि विहारस्य कथञ्चित् प्रसक्तेरविरुद्धत्ववन्मांसकर्मकबाह्यपरिभोगार्थस्याऽप्यविरुद्धत्वादिति विभावनीयम् / यच्च - पद्मावती काममञ्जरी वा वृणुष्वेत्यत्रेव सकृदुच्चरितो भुजिर्नाऽभ्यवहारं बाह्यपरिभोगं चाऽर्थं वक्तुं शक्त इत्यादि - तदप्यनुचितम्; एकस्यैव बाह्यपरिभोगार्थस्य टीकाकृता कथनात् / ___ यश्च मर्मजिज्ञासोर्भवतो मांसभक्षण-लेपनदोषतारतम्यप्रश्नस्तत्रेदं विचार्यतेमांसभक्षणं बहुश्रुतविरोधेनाऽऽसक्तिविशेषजनकत्वेन विपाकदारुणत्वेन हिंसामूलकत्वेन च सुतरां परिहार्यम् / अन्यत्तु न सर्वथा तथाविधमिति लूतादिविषमरोगसद्भावापरिहारे सदोषमपि सद्वैद्योपदेशतो न विरुध्यत इत्यादि स्वयमेव 'आयं वयं तुलिज्जा' इत्यादिसिद्धान्तवचनबलेनोहनीयमिति / दृष्टान्तत्वेन जिनकल्पोपादानं भवद्भिः कृतमप्याङ्ग्लभाषावैदग्ध्यदोषतः कायानीकृतभाषान्तरानुसरणतो न तथाऽवगतमिति नाऽस्मदोष इत्यत: प्रहितमुद्रितपत्रतोऽवगन्तव्यम् / एतावता मूल एव पुनरावृत्तेः प्रागपि च सत्यार्थप्रकाशनेनाऽनाग्रहित्वप्रसिद्धिर्भवतां भवेदित्याशास्वहे / एनं विचारमवधार्योचितकरणीयाय भवते ब्रूवो यदि काचिच्छङ्का भवत उदेष्यति तावां भवत्प्रहितं पत्रं तूर्णमवाप्य तद्विनोदाय यतेवहीति / पत्रं तु नीचैस्तने स्थाने प्रैष्यम्तत्र शिरोनाम - 'नेमिविजयानन्दसागरौ' स्थानं - पांजरापोल जैनतत्त्वविवेचकसभामन्त्री-केशवलाल अमथाभाई अहमदाबाद / / Jain Education International For Private & Personal Use Only www.jainelibrary.org