Book Title: Prof Jacobina Patra no Uttar Author(s): Anandsagarsuri Publisher: ZZ_Anusandhan View full book textPage 1
________________ अनुसन्धान-४१ प्रो. जेकोबीना पत्रनो उत्तर मुनि नेमिविजय-मुनिआनन्दसागर || अर्ह ॥ राजनगरतो मुनिनेमविजयानन्दसागराभ्यां ज्ञानाभ्यासविलासवासितान्त:करणान् संस्कृताध्यापकान् याकोबिप्रख्यान् प्रति दत्तो धर्मलाभो विलसतुतराम् । भवतां समागतं परीहार्यमीमांसाप्रत्युत्तरं श्राद्धखीमजीहीरजीकायानीसमाख्यातं प्रति चिरकालेन समालभ्य तत्प्रत्युत्तरविसर्जनं विधीयते । तथा हि -- भूयिष्ठजैनागमसम्मतमद्य-मांसभक्षणनिषेधव्यवस्थायां यदैकमत्यं प्रादर्शि तन्मर्मज्ञोचितम् । “किन्तु" यत् प्राचीनानां मद्य-मांस-भक्षणस्य निषेधो न सर्वदाऽऽसीदिति प्रतिपादनार्थमुग्रसेनं दृष्टान्तत्वेनोपन्यस्य तदादीनामाहतत्वं तीर्थकरसम्बन्धादनुमितं, तन्न - तीर्थकरसम्बन्धिनो जैना एवेत्यत्र विनिगमनाविरहात्, शान्तिनाथादितीर्थसृट्सम्बन्धिषु जैनभिन्नत्वोपलब्धेः । अधुनातनजैनानामपि स्वभिन्नसम्बन्धदर्शनाच्च । केनचिदाचरितस्य समुदायाचरणानुमानेऽकारणत्वाच्च । उग्रसेनकुमारीपरिणयावसरबद्धपशुसमजारटिश्रवणचकितपृष्टसारथिनिवेदिततत्कारणकतदनुभाविमृगवधप्रतिषेधकृज्ज्ञानत्रयविभूषितभगवन्नेमिचरित्रचमत्कृतिस्वादननैपुण्येनाऽऽर्हतानां मांसभक्षणपरीहारानुमानस्यैव दादाच्च ।। यच्च, समाचारान्यथात्वप्रपञ्चनपाटवेन प्राचीनस्थविरकल्पिकमुनिकर्तृकमांसभक्षणानुमानेऽपि न क्षतिरित्युच्यते - तदपि रभसात् । प्राचीनाद्यतनस्थविरकल्पिकमुनिकर्तृकभक्षणाचारस्यैकत्वात् । अद्यतनानां मुनीनां मद्यमांसभक्षणाचारस्य सर्वथाभावात् । जिनकल्पिकानां तु तद्भक्षणं न सम्भवत्येवेति पूर्वमेव विशदीकृतम्। ___ यदपि च, तिक्तेत्यादिकोशबलेनोपलब्धावपि वनस्पतिनिष्ठवाच्यतायाः स्त्रीत्वेनोद्दिष्टो मत्स्यशब्दोऽत्र सूत्रे तु पुंस्त्वेनेति मत्स्यशब्दस्य न मीनार्थातिरिक्तवाचकत्वमित्याधुक्तं, तदप्यसत् - चण्ड-सिद्धहेमचन्द्र-पाणिनीयव्याकरणस्थ"क्वचिद् व्यत्ययः" - "लिङ्गमतन्त्रं". "लिङ्ग व्यभिचार्यपी"तिसूत्रर्लिङ्गव्यत्ययस्याऽपि सद्भावात् । अत एव तत्र तत्र लिङ्गव्यत्ययेनोक्तिरपि सङ्गच्छते । यच्चोक्तं - यदि मत्स्यशब्दस्य मुख्यार्थव्यतिरेकेणाऽर्थान्तराभिधायित्वं स्यात् तदा तस्याऽर्थान्तरस्य बाधकमेव मांसशब्दस्य तेन सह सामानाधिकरण्यं Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2