________________
डिसेम्बर-२००९
उपकाररहितः सोऽथ न च ददाति तथाऽपि च । उपकारकारकः श्रेष्ठिसुतो भणति बालिशम् ॥२६।। 'यदि भद्र ! न देहीमं मणिं मेऽपि तथाऽपि च । आराधय स्वयं येन एष ददाति सुचिन्तितम्' ॥२७।। तदा भणति गोपालः 'सत्यमेतद् यदा तदा । बदर-कर्बरादि स ददातु मे बहु लहु' ॥२८॥ हसितो जल्पति श्रेष्ठि-सुतो 'नैव कदाऽपि च । भद्र ! चिन्त्यते एवं गोपाल ! गुरुडम्बर ! ॥२९॥ उपवासत्रिकेनाऽन्त्यरात्रिमुखे प्रमोदतः । लिप्तमहीतले शुचि-पट्टे च स्नपितं मणिम् ॥३०॥ कर्पूर-कुसुमादिभिः पूजयित्वा विधिना तथा । नत्वा तस्माच्चिन्तनीयं यत् तत् प्रभाते च प्राप्नोति' ॥३१॥ श्रुत्वा स बालिश इति छालिकाग्राममागतः । 'एषोऽपुण्यस्य हस्ते न भविष्यती'ति चिन्तयित्वा ॥३२॥ श्रेष्ठिसुतो न पृष्ठं च तस्य जहाति कोविदः । गच्छन् पशुपालश्च मणिं जल्पति 'हे मणे ! ॥३३।। अधुना छागिकाः सर्वाः विक्रीय तव द्रुतम् । पूजां करिष्यामि कर्पूर-कुसुमादिसुवस्तुभिः ॥३४॥ चिन्तितस्य प्रदानेन भवान् भवतु यथार्थतः' । तेनैवमुल्लपता एतदपि भणितं पुनः ॥३५।। 'दूरे ग्रामोऽस्ति मे इतस्ततः कथय कथां त्वम् । अन्यथा मे कथयतः एकाग्रो निशृणु त्वम् ॥३६।। देवालय एकहस्तः देवस्तत्र चतुर्भुजः' । पुनरुक्तमिति उक्तः जल्पति यावन्नैव सः ॥३७।। भणति तावद् रुष्टः स 'हुङ्कारमपि केवलं ।। यदि ददासि न मे ? आशा कीदृशी चिन्तिते तदा ? ॥३८॥ चिन्तामणिरिति ते नाम मृषा जल्प्यते सदा । तव संप्राप्त्या नैव चिन्ता नश्यति मे मनसि ॥३९॥