SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ७४ अनुसन्धान ४२ १२. जिनोत्सवसमाहूतपात्रापात्राधिकानपि । सत्कृत्य दत्तमन्नादिदानं संकीर्णमीरितम् ॥ १३. रोगिणं निगलितं च बाधितं दण्डितं क्षुधितमम्बुपातितम् । वह्निपीडितमवत्यवेक्ष्य कारुण्यदानमिदमीरितं बुधैः ॥ १४. जैनबन्धुयुगसेवनातुरान् बन्धवाहकजनानपि निजान् । तर्पयन्त्यशनवीटिकाभिरौचित्यदानमिदमुक्तमार्हतैः ॥ यो दत्ते गायकादिभ्यः काले काले यथोचितम् । ज्ञात्वाऽपवादभित्यना (?) दानमौचित्यमीरितम् ] १५. यो राजा वधकोऽस्त्रतो धनहरोऽन्यस्त्रीहरः सस्पृहः सन्तस्तद्विषयं श्रयन्ति न सदा नो विश्वसन्तीह तम् । तस्मै नो ददते धनादिचयदं तद्वद् गुणी धार्मिको दाता दानफलान्वयाः खलु तदा रत्नानि भाग्यानि च । End (Upasamhära) : वञ्चनां स्वामिदेवार्थे पित्राद्यर्थे करोति यः ।। सोऽसाध्यक्षयरोदी(गी?)व क्रमान्मुञ्चति जीवनम् ॥ परद्रव्यमा(मपा?)हृत्य पत्रव्याजाच्च(?) जीवति । इहाऽमुत्र निजीव:(?) स्याद् विष्टिकारो यथा जनः ।। शुचित्वत: सर्वशुभोदयः स्यादनिष्टकर्माणि न चाऽऽश्रयन्ति । सुगन्धिगेहं न विशन्ति नीलास्ततः कृतज्ञाः शुचितां लभेरन् ।। अशुचित्वं करोत्येवाऽशुभकर्माणि संस्रवम् । दुर्गन्धिमन्दिरं नीलाः प्रविशन्ति यथा तथा ।। जिनमुनिसमाधिसमये चित्तनिरोधं करोति यस्तस्य । गेहपुरनाश: स्वस्थानोच्चाटनं भवेनियमात् ।। आसने यत्र तिष्ठन्ति राजानो गुरवो बुधाः । तत्र तत्राऽऽसने जैनाः [न] वसन्त्यघभीरवः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229496
Book TitleDanlakshana aur Danshasana by Vasupujyarsi
Original Sutra AuthorN/A
AuthorJagannatha
PublisherZZ_Anusandhan
Publication Year
Total Pages5
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size269 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy