________________
अनुसन्धान-५८
न, प्रतिकर्मव्यवस्थाद्यनुपपत्तेः ॥१.२.१२॥ विचारासहत्वाच्छून्यमेवेति ॥१.२.१३॥ न, तदतद्भ्यां हेतोरनुपपत्तेः ॥१.२.१४।। एतेनाऽनिर्वचनीयतावादः प्रत्युक्त इति ॥१.२.१५।।
॥ इति [प्रथमाध्याये] द्वितीयः पादः ॥ प्रकृतिविकारस्य महतो वृत्तिस्तत् ॥१.३.१॥ न, तत्प्रक्रियाया एवाऽभावात् ॥१.३.२॥ नाऽतोऽविद्याऽन्तःकरणवृत्तिः ॥१.३.३।। नाऽऽधारमात्रं, साधारोपलब्धेः ॥१.३.४॥ नाऽऽधारव्यतिरिक्तमेव, सम्बन्धानुपपत्तेः ॥१.३.५।। न स्वस्वरूपमात्रप्रतिष्ठितं, व्यतिरेकात् ॥१.३.६।। अविष्वग्भूतं त्वात्मनः ॥१.३.७।। न प्राग् सदेव, व्यापारवैयर्थ्यात् ॥१.३.८।। नाऽसदेव, उत्पत्त्यनुपपत्तेः ॥१.३.९।। सदसद्वादस्तु सद्वादः ॥१.३.१०।। न विरोधोऽपेक्षोक्तेः ॥१.३.११॥ अस्तु सर्वदाऽनावृतमेव ॥१.३.१२॥ [न,(?)] सर्वस्य सर्वज्ञत्वाप्तेः संशयाद्यनुपपत्तेश्च ॥१.३.१३।। न प्रतिनियतविषयत्वमविनिगमात् ॥१.३.१४।। हेतुस्तु क्षयोपशमादावुपकरोति ॥१.३.१५॥ नाऽऽवृतमेव, स्वभावप्रच्युतेः ॥१.३.१६।। उक्तस्य केवलादन्यत्राऽसम्भवः ॥१.३.१७।। नाऽभेदश्रयणादनेकान्तात्मवस्तुप्रतिभासात् ॥१.३.१८।। भेदाश्रयणे त्वंशप्रथनान्नयोऽपीति ॥१.३.१९॥
॥ इति [प्रथमाध्याये] तृतीयः पादः ॥ स्वरूपोक्तेर्नेदं लक्षणम् ॥१.४.१॥ न, स्वरूप-तटस्थाभ्यां तद्भेदात् ॥१.४.२॥ न निष्प्रयोजनं, व्यावृत्तिप्रतीतेः ॥१.४.३।।