________________
फेब्रुआरी - २०१२
८५
न सिद्धता, सामान्य-विशेषाभ्यामवगमवैलक्षण्यात् ॥१.४.४।। अत एव नाऽऽत्माश्रयादिरनेकान्तत्वाच्च ॥१.४.५।। नाऽनवस्थानादुपेक्षा, जिज्ञासोपरमात् ॥१.४.६।। रूढि-योगाभ्यां लक्ष्योक्तेरुभयावगतिः ॥१.४.७।। नाऽतिव्याप्तेः ॥१.४.८॥ सङ्केतं विनाऽसत्कल्पः सम्बन्धः ॥१.४.९॥ नांऽशेऽपि पातादत्यापत्तिः, विशिष्टस्य कथञ्चिद्भेदात् ॥१.४.१०।। नाऽन्यत्र प्रामाण्यमनुपस्थितेः ॥१.४.११॥ नाऽननुगमादव्याप्तिर्भेदात् कथञ्चिदनुगमाद् वेति ॥१.४.१२।।
॥ इति [प्रथमाध्याये] तुर्यः पादः ॥ ॥ इति प्रमाणसामान्यस्वरूपनिरूपणाख्यः प्रथमोऽध्यायः ॥
॥ अथ द्वितीयोऽध्यायः ॥ प्रत्यक्ष-परोक्षाभ्यां द्वेधा ॥२.१.१॥ प्रत्यक्षमेकं, प्रत्यक्षा-ऽनुमाने द्वे, प्रत्यक्षा-ऽनुमानो-पमानानि त्रीणि, प्रत्यक्षा
ऽनुमानाऽऽगमास्त्रयं, प्रत्यक्षा-ऽनुमानो-पमाना-ऽऽगमाश्चत्वारः, प्रत्यक्षाऽनुमानो-पमाना-ऽऽगमा-ऽर्थापत्तय: पञ्च, प्रत्यक्षा-ऽनुमानो-पमाना-ऽऽगमा
ऽर्थापत्त्य-नुपलब्धयः षडित्यादयस्त्वसद्वादाः ॥२.१.२।। स्पष्टमाद्यम् ॥२.१.३॥ मानान्तरानपेक्षत्वं विशेषावभासनं वा तत्त्वम् ॥२.१.४।। नेन्द्रियार्थप्राप्तिजं, चक्षुर्मनसोरप्राप्यकारित्वात् ॥२.१.५।। नेन्द्रियजं, मनसोऽनिन्द्रियत्वादवध्याद्यव्याप्तेश्च ॥२.१.६।। अत एव नाऽर्थजम् ॥२.१.७।। ज्ञानाकरणकन्तु नोक्तादन्यत् ॥२.१.८।। विषयत्वे तन्त्रं न क्षयोपशमादिभ्योऽन्यत् ॥२.१.९।। न निर्विकल्पकमेव, मानत्वासिद्धेः सविकल्पकस्यैव तथानुभवाच्च ॥२.१.१०।। न चैतन्यानामेकलोलीभावोऽसिद्धेः ॥२.१.११॥ सांव्यवहारिक-पारमार्थिकाभ्यां द्विविधमेतत् ॥२.१.१२॥ न लौकिका-ऽलौकिकाभ्यामलौकिकासत्तेरभावात् ॥२.१.१३।।