________________
फेब्रुआरी - २०१२
अनेकान्ततत्त्वमीमांसा
॥ अथः प्रथमोऽध्यायः ॥ अथाऽनेकान्ततत्त्वमीमांसा ॥१.१.१।। प्रमाण-नय-निक्षेपतस्तत्त्वावधारणम् ॥१.१.२।। वस्तुव्यवसायि ज्ञानं प्रमाणम् ॥१.१.३।। समारोपविरोधात् प्रामाण्याद् वा ॥१.१.४।। स्वपरावगाहित्वं तु समानम् ॥१.१.५॥ नाऽर्थोपलब्धिहेतुर्विकल्पासहत्वात् ॥१.१.६।। नाऽनधिगतार्थाधिगन्तृ तत्त्वानुभूतिर्वा, स्मृत्यव्याप्तेः ॥१.१.७।। सम्यगर्थनिर्णयस्तु नोक्तादन्यः ॥१.१.८।। तद्वति तज्ज्ञानमित्यप्यनर्थान्तरम् ॥१.१.९।। नैवं समारोपः ॥१.१.१०॥ विपर्यय-संशया-ऽनध्यवसायास्तु तद्विशेषाः ॥१.१.११।। प्रामाण्यं त्वस्योत्पत्तौ परतः, ज्ञाने स्वतः परतश्चाऽप्रामाण्यवत् ॥१.१.१२।। जनि-ज्ञप्ति-फलेषु स्वत एवेति प्रतिबन्दिपराहतमिति ॥१.१.१३॥
॥ इति [प्रथमाध्याये] प्रथमः पादः ॥ ज्ञानमात्रं, भ्रमाभावात् ॥१.२.१॥ न, हेत्वसिद्धः ॥१.२.२॥ वस्त्वसिद्धेर्नैवम् ॥१.२.३।। न, बाधकाभावात् साधकसद्भावाच्च ॥१.२.४।। न निर्विकल्पाव्याप्तिरलक्ष्यत्वात् ॥१.२.५॥ लक्ष्यासिद्ध्याऽसम्भव इति न, व्यवहारतस्तत्सिद्धेः ॥१.२.६।। स्वीकारतिरस्कारोपेक्षास्तु तद्विशेषाः ॥१.२.७।। कार्यकारणभावाभावान्नोक्ताऽसिद्धिः ॥१.२.८॥ नाऽवधेनियमात् ॥१.२.९॥ स्वभावादितस्तु न प्रतिनियमः ॥१.२.१०॥ ग्राह्यग्राहकभावविधुरमेव तत् ॥१.२.११॥