________________
अनुसन्धान ३६
योग्यायोग्यत्वं समयवितर्केण तर्कयतीति स्पष्टम् ॥२०॥
सोऽपि समयः शुभो वाऽशुभः सुचिरं कालं न तिष्ठतीत्यर्थं, पुनः स्वसज्जनजनमनः प्रेरयतिमूल दोहा - पंच पंच दिनहइ परम, परतिख जन परसंस ।
घनरितु मधुर मयूर सुर, सरदि सुघर सिर हंस ॥२१॥ व्याख्या - 'पञ्च पञ्च दिनानि' यावदित्युक्ति: प्रसिद्धा जनानां, सूदयवशेन प्रवराद्भुता प्रशंसा इति - 'अयं वाग्मी, समुपार्जक: शूरः' इत्यादिश्लाघारूपा भवति ! न तु तादृश्येव यत्र तत्र सर्वकालं सम्भवति-इति तद्धेतुसूचकं वचनप्रपञ्चं प्रपञ्चयति - घनौ मेघसमये मयूरस्यैव स्वरो मधुरःइति लोक प्रशस्तिस्तथा च शरदि मयूरस्वरं कर्णकटुं विज्ञाय निन्दन्ति । तदा स्वरप्राधान्यात् 'हंसो गुणिनामुत्तमः' इति श्लाघां-आचष्टे कुर्वति इति नामधातुविवक्षायां श्लाघयन्ति - इति सत्यं युक्तं, यदुक्तं कालिदासकविना -
"कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा । नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ॥
पूर्वमेघदूते । इति तत्त्वम् ॥२१॥ इत्थं श्रुत्वा पूर्वोक्तबलसमयाधीनं सुखं जनेन स्वजनोपकारपूर्वक शत्रावपकारस्तिरस्करणं कार्यम् - इत्युपदेष्टुं सोत्साहं वचो वक्तिमूल दोहा - दाहवचन रिपुके दहिओ, जो जणु बिणु रीस ।
सारंग ! तार्थि हि रज सकज, पदहत परसइ सीस ॥२२॥ व्याख्या - रिपोर्दाहोत्पादकवच विदग्धो यो जनः ईर्ष्या विना 'नीरोषः सन् स्थितः, तल्लक्षणाज्जनात्, रजो रेणुरेव श्लाघ्यं, यद् व्रजन्मनुजचरणाहतमुत्थाय त्वरितमेव तदाघातकस्य शीर्ष स्पृशति मलिनयति - इति मर्मोक्तिः ॥२२॥
___ अथ कथञ्चित् कोपि वयस्यः कालान्तरे कुप्यति, तदा कि कार्यमित्याशङ्क्याऽऽहमूल दोहा - बल्लभु जबु पेखि हु विमुख, बसि तबु विदुर ! विदूर ।
मरुदिशि रहइ न मोतचर, निरखि गुडल जलनूर ! ।।२३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org