SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ September-2006 व्याख्या - द्विपक्षानुसारेण विमृष्टा शीता कातरस्वरूपा सन्ततिः सुतो वा सुता वा, सहजेनेति प्रायश: सूरा धृतिमन्तो नोत्पद्यन्ते । तदेव आह लोकोक्त्या स्वातिबिन्दुतः समुद्भूतः कदलीसुतः रम्भास्तम्भजातः कर्पूर: नंष्ट्वा नंष्ट्वा याति । यदुक्तम् "संगइवसेण साईअजलं सियब्धं च केलिमज्झगयं । अहिमुहपडिय गरलं सप्पिमुहे मुत्तियं होइ ॥ तदा पक्षद्वयस्य शीतभाव एव नाशनमूलमिति स्पष्टार्थः ॥ १८ ॥ अथ च स एव कर्पूरो बलवत्प्रकारान्तरेण मिरचादिसहायवत्तारूपेण तिष्ठति, अत एव सर्वोऽपि लोकः सहायमृते सफलबलभावं नाऽऽविष्करोतीत्येतदर्थमेवाहमूल दोहा व्याख्या अतिबलवंत इकेल तन, जनमि न पावइ जीत । महिलालोयन मोह कुं, अंजनु विनु अविनीत ॥ १९ ॥ अतिबलवन्तोपि एकाकिनः स्वकायमात्रा एव, जन्मनि कदाचिदपि जयं न प्राप्नुवन्ति, तत् कथमिति तत्, दृष्टान्तमात्रेण सहायं तिरस्करोति- महिलामां लोचनानि तीक्ष्णदीर्घतरल भावभाजि बलवन्त्यपि सहायीभूतमञ्जनं विना तरुणजनमनोमोहनार्थं, न विनीतानि अचतुराणि, न तथा शक्तिमन्ति भवन्ति इति सत्यमेव चिन्त्यम् ॥१९॥ — Jain Education International - अथ च तान्येव लोचनानि अञ्जनवन्ति तारुण्यावसरैव (रे एव) शोभन्ते, न तु वृद्धावस्थायां रचिताडम्बरतया भान्तीति समयौचित्यमाहमूल दोहा - 31 सारंग ! समयविशेषि सबु भूषन - दूषन भेद | जरति युवति के अधर ज्युं, व्रणु अरु दंतविछेद ॥२०॥ व्याख्या हे सारंग ! इति स्वामन्त्रणस्वरूपं परोपदिष्टिवचनमपि, सर्वोपि भूषण दूषणरूपो भेदो, विचार इति वक्तव्ये - 'अयं योग्योऽयमयोग्य' इति समयविशेषेणैव प्रस्तावौचित्येनैव भवति । तत्स्वरूपमुत्तरार्धेन निवेदयति यथा जरत्या वृद्धायाः अधरे किञ्चिद्दन्तदशनं कथञ्चिज्जायते, तदा समयाभावेन लोकाः, विलोक्य इति वदन्ति इति शेषः, अयं व्रणो विस्फोटोऽस्तीति, तथा युवत्या अधरे विस्फोटे पि जाते जनोक्तिरेवं स्यात् दन्तक्षतोऽस्तीति, For Private & Personal Use Only -- www.jainelibrary.org
SR No.229470
Book TitleSarangmuni Pranit Sukti Dwatrinshika
Original Sutra AuthorN/A
AuthorAmrut Patel
PublisherZZ_Anusandhan
Publication Year
Total Pages18
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy