________________ October-2007 21 यदि च मत्स्यशब्दस्य मुख्यार्थव्यतिरेकेणाऽर्थान्तराभिधायित्वं स्यात् तदा तस्य शब्दार्थान्तरस्य बाधकमेव मांसशब्दस्य तेन सह सामानाधिकरण्यं स्यात् / 'अर्थः प्रकरणं लिङ्गं शब्दस्याऽन्यस्य सन्निधि'रिति शब्दार्थस्याऽनवच्छेदे सन्निधेरेव विशेषस्मृतिहेतुत्वस्मरणात् / इत्थं मांसशब्दसन्निधेर्मत्स्यशब्दस्याऽत्यन्तविजातीयवनस्पतिविशेषार्थाभिधा बाध्यते मीनपर्यायत्वं च सिध्यति / रूढ्यभावेऽपि मत्स्यशब्दो लक्षणयाऽर्थान्तरं नीयत इति चेत् - न, शक्यसम्बन्धाभावात् प्रयोजनाभावाच्च ! न हि मीनार्थ-फलविशेषार्थयोः कश्चित् सम्बन्धः प्रतीयते / न च किञ्चित् प्रयोजनमुपलभ्यते येन वनस्पतिविशेषार्थो मीनपदार्थसङ्केतितमत्स्यशब्देनोच्यतेति / ___यच्च - भुजिरत्र बाह्यपरिभोगार्थे, नाऽभ्यवहारार्थे वर्तत - इत्युच्यते, तदप्यसत्; प्रकरणवशाद् भुजिधातोरभ्यवहारार्थस्याऽऽवश्यकत्वात् / भोजनपानविधिनिषेधौ हि आचाराङ्गसूत्रस्य दशमोद्देशके प्रस्तुतौ न तु चिकित्सादि। अन्यच्च, मत्स्यशब्देन सह सम्प्रयुक्तस्य भोजनशब्दस्याऽभ्यवहारवाचकत्वाभ्युपगमे तस्यैव भोजनशब्दस्य मांसशब्देन सह सम्प्रयुक्तस्य स एवाऽर्थोऽवश्यमभ्युपेतव्यः / न हि पद्मावती काममञ्जरी वा वृणुष्वेति वाक्ये पद्मावतीकर्मकवरणक्रिया-काममञ्जरीकर्मकवरणक्रिययोरेकपदेनाऽभिहितयोः स्वीकुरुष्वेत्यवगुण्ठयेति भिन्नार्थत्वमुपपद्यते / श्लेषेण तत् स्यादिति चेत् - न, श्लिष्टपदप्रयोगस्य काव्यविषये बाहुल्येन दर्शनात् न तु जिनागमे / अपि च, मांसभोजनस्य बाह्यपरिभोगतया कल्पने श्रीमन्तौ प्रष्टव्यौबाह्यपरिभोगे मांसस्य परिव्यापादितपिशितभक्षण इव प्रयोक्तुर्जीवहिंसा भवति वा नवेति ? अस्ति चेत्, प्रयोक्तुः कर्मबन्धप्रसङ्गात् सूत्रस्थितविधेर्दोषत्वं दुष्परिहरणीयम् / अथ नाऽस्ति, आन्तरप्रयोगेऽपि सा न भवतीति दिक् / एवं सति मत्स्य-मांस- भोजनपदानां fish meat eat इत्याङ्ग्लदेशीयपदैरस्मन्मतेऽवश्यमेवाऽनुवादः कर्तव्यः ! यदि चाऽस्मदज्ञातयुक्त्या प्रस्तुतमागधीयपदानामर्थान्तरकल्पना शक्यक्रिया तदा तयैव सैव तत्प्रतिबिम्बभूतानामाङ्ग्लदेशीयपदानामप्यध्येतृभिः क्रियतामिति / __ यदि चाऽऽचाराङ्गसूत्रानुवादस्य द्वितीयावृत्तिः प्रकाश्यते तदा श्रीमद्भ्यां दर्शितः सूत्रार्थष्टिप्पन्यामुदाहारिष्यते इति प्रागेवाऽस्माभिः प्रतिज्ञातमिति विज्ञप्तिः / / Jain Education International For Private & Personal Use Only www.jainelibrary.org