________________
२०
हर्मन जेकोबीनो पत्र
प्रो. हरमन जेकोबी
श्री श्री श्री १०५ श्रीमुनिनेमिविजयानन्दसागरावाचार्यशिरोमणी प्रति बोषानगरवास्तव्यस्य याकोबिनाम्नः संस्कृताध्यापकस्य धर्मलाभपुरःसरं विज्ञप्तिरियम् । श्रीमद्भ्यां परिहार्यमीमांसाख्यपत्रे मांसमत्स्यभक्षणनिषेधो भूयिष्ठजैनागमसम्मतोऽखिलजैनमुनिसदाचाराङ्गीकृतश्चेति यद् बहुसूत्रप्रपञ्चेन निरणायि तत्र सर्वेषामैकमत्यमेव । अस्माभिस्तु यथेदानीन्तनानां जैनानां मांसभक्षणं निषिद्धं, न तदा ( था ) सर्वदाऽऽसीदिति प्रत्यपादि । तथा हि- अरिष्टनेमिविवाहावसरे तच्छ्वशुरेणोग्रसेननाम्ना महाराजेन विवाहोत्सवोचितान्नसम्पादनार्थं प्रभूता मृगाः पञ्जरबद्धा अस्थापिषतेत्युत्तराध्ययन सूत्रस्थद्वादशाध्ययने श्रूयते । उग्रसेनादीनां त्वार्हतत्वं तीर्थकरसम्बन्धादनुमीयते । एवं च तेषां मांसभक्षणं न निषिद्धमासीदिति प्रतिभाति ।
अनुसन्धान- ४१
ननु गृहस्था एव ते, न च गृहस्थाचारनिमित्तको विवादो, भिक्षूणामाचारस्याऽऽचाराङ्गेऽधिकृतत्वादिति चेत् सत्यम् । किं तर्हि ? जैनमुनिसमाचारस्याऽपि न सर्वदैकभावाश्रयत्वमासीदिति पूर्वमेवाऽस्माभिरुक्तम् । अद्यतनानां हि जैनमुनीनां स्थविरकल्पनियमः । पूर्वं तु जिनकल्पः प्रववृते । दृष्टान्तत्वेन मया जिनकल्प उदाहृतः, न तु आचाराङ्गसूत्रे जिनकल्पः प्रस्तुत इति विवक्षया ।
एवं समाचारस्याऽन्यथाभावमापद्यमानत्वदर्शनात् कदाचित् कस्मिंश्चित् पूर्वसमये मांसभक्षणमपि नाऽत्यन्तं निषिद्धमासीदित्यविरुद्धा कल्पना । एतेन न्यायेनाऽऽचाराङ्गसूत्रस्थितसूत्रस्याऽर्थोऽनुसन्धातव्यः ।
Jain Education International
किञ्च, मांस-मत्स्यशब्दयोः पिशित- मीनातिरिक्तपदार्थे न वाचकत्वम् । यत्तु 'मत्स्या चक्राङ्गी शकुलादिनी 'ति श्रीहेमचन्द्रविरचितकोशे मत्स्याशब्दस्य वनस्पतिविशेषे रूढत्वदर्शनात् पूर्वोक्तसूत्रस्थमत्स्यशब्दोऽपि वनस्पतिविशेषार्थं गमयतीत्युच्यते, तदसमीचीनमेव । स्त्रीत्वेनोद्दिष्टस्य मत्स्याशब्दस्य वनस्पतिविशेषार्थाभिधायित्वात् पूर्वोक्तसूत्रस्थितस्य मच्छेणेतिशब्दस्य पुंस्त्वस्याऽ सन्दिग्धत्वात् ।
For Private & Personal Use Only
www.jainelibrary.org