________________
अनुसंधान-२६ निष्ठायाम्' [७।२।१४।।] इति 'पाणिनीय' सूत्रेण च इग्निषेधे 'सूयत्याद्योदित:' (४।२।७०||) इति 'श्रीसि०हे०श०' सूत्रेण 'ओदितश्च' [८।२।४५॥] इति 'पाणिनीय' सूत्रेण च तस्य नत्वम् । आपीनः पुंक्लीबलिङ्गः । आपीनम् ऊधः । "ऊधस्तु क्लीबमापीनम्" इत्यमरः । “आपीनमूधः" इति हैम:२ आपीनस्य भारः आपीनभारः । उत्-ऊर्ध्वं वहनं उद्वहनम् । आपीनभारस्य उद्वहनम आपीनभारोद्वहनम् । आपीनभारोद्वहनस्य प्रयत्न: आपीनभारोद्वहनप्रयतः, तस्मात् आपीनभारोद्वहनप्रयत्नात् ।
वपुषः उप्यन्ते, देहान्तरभोगसाधनबीजभूतानि कर्माण्यत्रेति वप्धातो: उसि वपुस् । "वपुः शरीरे, प्रशस्ताकारे च" । तस्य वपुषः-शरीरस्य । गुरोः भावः गुरुत्वम्, तस्माद् गुरुत्वात्-स्थौल्यात् । अञ्च्येते इति पूजार्थक अञ्चू' धातोः कर्मणि वर्तमाने क्ते ताभ्याम् अञ्चिताभ्याम् । मन्दमन्दगमनेन प्रशस्ताभ्याम् । गमने इति गते, ताभ्यां गताभ्याम् । तपसः वनं तपोवनम् । तपोवनादावृत्तिः तपोवनावृत्तिः । तपोवनावृत्तेः पन्थाः तपोवनावृत्तिपथः, तं तपोवनावृत्तिपथम् । 'ऋक्पू: पथ्यपोऽत् (७।३।७६।।) इति 'श्रीसिहे०श०' सूत्रेण समासान्तोऽत् ! ऋक्पूरब्धःपथामानक्षे [५४/७४||] इति 'पाणिनीय' सूत्रेण च समासान्तो 'अ'प्रत्ययः । अलञ्चक्रतुः- भूषयामासतुः ।।
वाच्यपरिवर्तनं त्वेवम् – गृष्ट्या नरेन्द्रेण च उभाभ्यां आपीनभारोद्वहनप्रयत्नाद् वपुषो गुरुत्वात् अञ्चिताभ्यां गताभ्यां तपोवनावृत्तिपथः अलञ्चक्रे ।।
सा नन्दिनी महोधोभारात् दिलीपश्च नृपः शरीरभाराद् द्वावपि मन्दं मन्दं गमनेन तपोवनावृत्तिमार्गमलञ्चक्रतुः, इति सरलार्थः ॥१८॥
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता बनान्तात् । पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥१९॥
वसिष्ठधेनोरिति । अतिशयेन वसुमान् वसिष्ठः । 'गुणाङ्गाद् [वेष्ठेयसू]' (७।३।९।।) [सि०] इति इष्ठे 'विन्-मतोनि(र्णी)ष्ठे [यसौ लुप्]' (७।४।३२॥) [सि०] इति मतोलृपि 'त्रन्त्यस्वराऽऽदेः' (७४।४३॥) [सि०] इत्यन्त्यस्वरादिलोपे वसिष्ठः । अरुन्धती जायाऽस्येति 'जायाया जानिः' (७।३।१६४॥) इति १. अम० द्वि० वैश्यवर्गे - १८५२ । २. अभि० चि० चतु० १२७२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org