SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ December - 2003 मानानि 'डाच्लोहितादिभ्यः षित् (३।४।३०॥) इति 'श्रीसिव्हेश०' सूत्रेण षित् क्यङ् । 'लोहितादिडाजभ्य: क्यष्' [३।१।१३।।] इति 'याणिनीय' सूत्रेण च क्यम् । 'क्य क्षो न वा' (३।३।४३।।) इति 'श्री सिव्हे०श०' सूत्रेण 'वा क्यषः' [१।३।९०॥] इति 'पाणिनीय' सूत्रेण चाऽत्मनेपदे शानच् । अथवा श्यामानीवाऽऽचरन्तीति श्यामायमानानि, आत्मनेपदम्, तत आनश्, इति व्युत्पत्तौ 'श्रीसि०हे०श०' 'क्यङ्' (३।४।२६।।) इति सूत्रेण क्यङ्, तत आनशः, 'कर्तुः क्यङ् सलोपश्च' [३।१।११॥] इति 'पाणिनीय' सूत्रेण क्यञ् ततः शानच् । वनानि । पश्यतीति पश्यन्" शतृशानौ तिसेवत्' इति परस्मैपदे शतृप्रत्यय: । सन् । ययौ-जगाम ॥ वाच्यपरिवर्तनं त्वेवम् - तेन पल्वलोत्तीर्णवराहयूथान्यावा]सवृक्षोन्मुखबहिणानि मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यता (सता) यये ॥ स दिलीपः प्रत्यावर्तमानः सन्ध्यागमे पल्वलेभ्यो निर्गतानि शूकरयूथानि निशायापनार्थं चाऽऽवासवृक्षोन्मुखं च गच्छन्तो बर्हिणो(णा)श्च शष्पसाम्येषु सुखं स्थित्वा विश्राम्यमाणान् मृगान् च पश्यन् सन् दृष्ट्वा एतेषां मलिनिम्ना प्रदोषान्धकारेण श्यामायमानानि वनानि पश्यन् वशिष्ठा श्रमं प्रति जगाम, इति सरलार्थः ॥१७॥ आपीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद्वपुषो नरेन्द्रः । उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥१८॥ आपीनेति । गिरति इति 'गृत्-निगरणे'इतिधातोः 'गो गृष् च' 'उणादि' ॥६४९॥ इति 'श्रीसि०हे०श०सूत्रेण गृषादेशे तिप्रत्यये च गृष्टिः । गृह्णाति सकृत गर्भमिति वा ग्रधातोः तिच्प्रत्यये पृषोदरादित्वा त्याणिनीय' मते गृष्टिः । सकृत्प्रसूतिका गौः । "गृष्टिः सकृत्प्रसूतिका" इति हैम: । 'सकृत्प्रसूता गौ: गृष्टि'रिति हलायुधः । इन्दतीति इन्द्रः, नराणामिन्द्रः नरेन्द्रः । उभौ-यथाक्रमम् । आप्यायते स्मेत्यापीनम्, आयूर्वात् 'ओप्यायैङ्-वृद्धौ'धातोः क्ते प्याय: पीत्वे तस्य नत्वे चाऽऽपीनम् । 'आङोऽन्थूधसो:' (४.११९३।।) इति 'श्रीसिव्हे०श०' सूत्रेण 'प्यायः पी' [६।१।२८॥] इति 'पाणिनीय' सूत्रेण च प्यादेशः । 'डीयश्व्यैदितः क्तयोः' (४|४.६१॥) इति 'श्रीसिव्हेश०' सूत्रेण 'श्वीदितो १. अभि० चि० चतु० १२६८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229356
Book TitleRaghuvansh Dwitiya Sarga Tika
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages93
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy