________________
December - 2003
चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डलकूप इव ॥४॥ आचारपूतत्वात् स राजा जगत्पावनस्याऽपि सेव्य आसीदिति भावः ॥
वाच्यपरिवर्तनं त्वेवम्- गिरिनिर्झराणां तुषारैः पृक्तेनाऽनोकहाकम्पितपुष्पगन्धिना पवनेनाऽनातपत्र आतपक्लान्त आचारपूतः स सिषेवे ॥
पर्वतसरित्प्रवाहाणां शीतलान् वारिकणान् वहन् ईषत्कम्पितानां तरुपुष्पाणां गन्धं वहन्मन्दः शीतलः सुगन्धः जगत्पावयन्गन्धवहः तस्मिन् वने छत्ररहितं आतपतापितं सदाचारपवित्रं तं दिलीपं सेवितवान्, इति सरलार्थः ॥१३॥
शशाम वृष्ट्याऽपि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन् वनं गोप्तरि गाहमाने ॥१४॥
शशामेति । गोपायतीति गोप्ता, तस्मिन् गोप्तरि-रक्षयितरि । तस्मिन् दिलीपे राज्ञि । वनम्-अरण्यम् । गाहतेऽसौ गाहमानः, तस्मिन् गाहमाने प्रविशति सति । वृष्ट्या विनाऽपि-वर्षाणामभावेऽपि । दुनोतीति दवः । दवस्य अग्निः दवाग्नि:-वनाग्निः । "दवदावौ वनानले" इति हैम:' । “दवदावौ वनारण्यवहीं" इत्यमरः । अन्यत्र तु दवनं दव इति भावे 'दु'धातोरपि भवति उपतापे । शशाम शान्तो बभूव ।
फलानि च पुष्पाणि च फलपुष्पाणि, फलपुष्पाणां वृद्धिः फलपुष्पवृद्धिः - सस्यकुसुमवृद्धिः । “वृक्षादीनां फलं सस्यम्" इत्यमरः । विशिष्यत इति विशेषा; 'भावाऽकों' (५।३।१८।।) इति 'श्रीसि०हेश०' सूत्रेण, पाणिनीयमते तु बाहुलकात् कर्मणि 'घ'-अतिशयिता । आसीत्-अभूत् । सत्त्वेषु जन्तुषु मध्ये 'सप्तमी चाऽविभागे निर्धारणे' (२।३।१०९।।) इति 'श्रीसि०हे०श०' सूत्रेण, 'यतश्च निर्धारणम्' [२।३।४१६] इति पाणिनीयसूत्रेण च सप्तमी । "सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । अधिक:-प्रबलः (सबल:) सिंहादिरित्यर्थः ।
१. अभि० चि० अनेकार्यसङ्ग्रहे द्वि० ५१२ । २. अम० तृ० नानार्थवर्गे - २७४७ । ३. अम० द्वि० वनौषधिवर्गे - ६७८ । ४. अम० तृ० नानार्थवर्गे - २७६१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org