SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ २६ 14 श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः । पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः || . समीर मारुतमरुज्जगत्प्राणसमीरणाः । नभस्वद्वातपवनपवमानप्रभञ्जनाः " ॥ इत्यमरः । आतपत् त्रायते इत्यातपत्रम् । न विद्यते आतपत्रं यस्य स अनातपत्रः, तम् अनातपत्रम् - व्रतार्थं परिहृतछत्रम् । अत एव क्लाम्यते स्मेति क्लान्तः । आतपेन क्लान्तः आतपक्लान्तः, तम् आतपक्लान्तम् । पूयते स्मेति पूतः । आचारेण पूतः आचारपूतः तम् आचारपूतम् - आचारशुद्धम् । तं नृपम् । सिषेवे - सेवितवान् । अनेन 'आचारः प्रथमो धर्म:' इति ज्ञापितम् । यद्यपि ज्ञानपूर्णः स्यात्तथाऽपि सामान्यदृष्ट्या आचारभ्रष्टः ( न सेवनार्हः स्यात् ) । तथा चाऽऽह शीलविहीनस्तु तथा श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥१॥ तथा चाऽऽहुः पूज्या: गुणसुट्ठियस्स घयमहुसित्तुव्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहीणो जह पईवो ||१|| तथा चाऽन्येनाऽप्युक्तम् क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः ॥ १ ॥ तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु न । तथा पुष्टिं जनयति यथा हि गुणवन्मुखात् पतितम् ॥२॥ शीतेऽप्ययत्नलब्धो न सेव्यतेऽग्निर्यथा स्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥३॥ अनुसंधान - २६ १. अम० प्र० स्वर्गवर्गे १२२-२३-२४-२५ । २. गुणसुस्थितस्य घृतमधुसिक्त इव पावको भाति । गुणहीनस्य न शोभते स स्नेहविहीनो यथा प्रदीपः || ( छायार्थः ) || Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.229356
Book TitleRaghuvansh Dwitiya Sarga Tika
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages93
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy