________________
अनुसंधान-२६ नपुंसकत्वे च द्वितकार एव' ।
विनेष्यतीति विनेष्यन्-शिक्षयिष्यन्निव । दावं वनम् । “वने च वनवह्नौ च दवो दाव इहेष्यते" इति यादवः । “दवदावौ वनारण्ये(ण्य)वह्री' इत्यमरः । विचचार-वने च (वा) चचारेत्यर्थः । 'सिद्धहेम'मते 'कालाध्वभावदेशं [वा] कर्म चाऽकर्मणाम् (२।२।२३।।) इति, 'पाणिनीय'मते तु "देशकालाध्व-गन्तव्या कर्मसंज्ञा ह्यकर्मणाम्" इति दावस्य कर्मत्वम् ।।
___ वाच्यपरिवर्तनं तु- लताप्रतानोद्ग्रथितैः केशैः (उपलक्षितेन) अधिज्यधन्वना तेन (दिलीपेन) मुनिहोमधेनोः रक्षापदेशात् वन्यान् दुष्टसत्त्वान् विनेष्यतेव दावो विचेरे ॥
स दिलीपो लम्बायमानं स्वकेशकलापं वल्लरीतन्तुभिः उन्नमय्य बद्ध्वा चापे ज्यामारोप्य तां मुनिहोमधेनुं ररक्ष । अत्रोत्प्रेक्ष्यते - मन्ये खलान्तकोऽसौ दिलीपो धेनुरक्षणव्याजेनाऽऽगत्य तत्र वने सिंहादीन् दुष्टजन्तून् विनाशितुं(शयितुं) तथा सज्जीभूतो विचचार, इति सरलार्थः ॥८॥
विसृष्टेत्यादिभिः षड्भिः श्लोकैस्तस्य महामहिमतया द्रुमादयोऽपि राजोपचारं चक्रुरित्याह
विसृष्टपाश्र्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥९॥
विसृष्टेति । विसृज्यन्ते स्मेति विसृष्टाः । अनुचरन्तीति अनुचराः । पार्श्वयोरनुचराः पाश्र्वानुचराः । विसृष्टाः पार्खानुचराः पार्श्ववर्तिनो जना येन स विसृष्टपाश्र्वानुचरः, तस्य विसृष्टपाश्र्वानुचरस्य । पाशं बिभर्तीति पाशभृत्, तेन पाशभृता-वरुणेन । समस्य-तुल्यस्य । "प्रचेता वरुणः पाशी" इत्यमरः । अत्र दिलीपस्य वरुणतुल्यताप्रतिपादनेन, वरुणस्य जलाधिष्ठातृदेवत्वेन प्रसिद्धिः, तं दृष्ट्वा यथा द्रुमादयः पुष्यन्ते तथा तं नृपं दृष्ट्वा सर्वेऽपि पुष्यन्ते इति द्योतयति। अनुभावोऽनेन सूचितः । तस्य राज्ञः । पार्श्वयोः द्रुमाः पार्श्वद्रुमाः । द्रवति ऊर्ध्वं गच्छतीति दुः, द्रवः शाखाः सन्त्येषामिति द्रुमाः । उत् उत्कटो मदो येषां ते उन्मदाः, तेषामुन्मदानामुत्कटमदानाम् । वयसां खगादीनाम् । १. अम० तृ० नानार्थवर्गे - २७४७ । २. अम० प्र० स्वर्गवर्गे - १२१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org