________________
December - 2003 वा । उद्ग्रथ्यन्ते स्मेति उद्ग्रथिताः । लताप्रतानैः लतासम्बन्धिकुटिलतन्तुभिः उद्ग्रथिता-उन्नमय्य ग्रथिता लताप्रतानोद्ग्रथिताः, तैः लताप्रतानोद्ग्रथितैः । केशैः कचैः । सिद्धहेममते 'हेतुकर्तृकरणेत्थम्भूतलक्षणे' (२।२।४४) इति तृतीया। "चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः" इत्यमरः । पाणिनीयमते तु 'इत्थम्भूतलक्षणे' [२।३।२१॥] इति तृतीया । “वल्ली तु व्रततिर्लता" इत्यमरः । उपलक्षितस्स राजा । ज्यामधिरूढं अधिज्यं - आरोपितमौर्वीकं, अधिज्यं धनुर्यस्य स अधिज्यधन्वा सन् । सिद्धहेममते 'धनुषो धन्वन्' (७।३।१५८) इति बहुव्रीहौ 'धन्वन्' आदेशः । पाणिनीयमते तु 'धनुषश्च' [1५।४।१३२॥] इति 'अनङ्'आदेशः । होमाय धेनुः होमधेनुः । 'सिद्धहेम'मते हितादेराकृतिगणत्वात् 'हितादिभिः' (३।११७१॥) अनेन तादर्थ्यचतुर्थ्यन्तस्याऽपि समासः । एवं अश्वघासादावपि ज्ञेयम् । यत्र प्रकृतिविकृतिभावस्तत्रैव तादर्थ्यचतुर्थ्यन्तस्य समास इति । 'पाणिनीय' मते तु होमस्य धेनुः होमधेनुः । अत्राऽश्वघासादिव तादर्थ्य षष्ठीसमासः । मुनेः होमधेनुः मुनिहोमधेनुः, तस्याः मुनिहोमधेनोः ।
रक्षणं रक्षा । अपदिश्यतेऽपदिशनं वा इत्यपदेशः ! रक्षायाः अपदेशः रक्षापदेशः, तस्मात् रक्षापदेशात्-रक्षणव्याजात् । वने भवा वन्याः, तान् वन्यान्काननोत्पन्नान् । "अटव्यरण्यं विपिनं गहनं काननं वनम्" इत्यमरः । दुष्टाश्च ते सत्त्वाश्च दुष्टसत्त्वास्तान्- दुष्टजन्तून्ः हिंस्रजन्तून् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । सतो भावः सत्त्वं 'साङ्ख्यसिद्धे, प्रकाशादिसाधने, प्रकृत्यवयवे, पदार्थे । तत्र
'सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्' ।। इति गीता । "सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥"
इति च साङ्ख्यकारिका [॥१३॥] अयं द्वितकारः पृषोदरादित्वादेकतकारः । 'स्वभावे, द्रव्ये, बले, पिशाचादौ, प्राणेषु, व्यवसाये, रसे, आत्मनि, चित्ते, आयुषि, धने च न्यायो(वैशिषिको)क्ते सत्तारूपे, जातिभेदे, विद्यमानतायां च' । 'जन्तुषु तु पुंस्त्त्वे १. अम० द्वि० मनुष्यवर्गे - १२६४ । २. अम० द्वि० वनौषधिवर्गे - ६६६ । ३. अम० द्वि० वनौषधिवर्गे - ६५०। ४. अम० तृ० नानार्थवर्ग-२७६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org