________________
July 2004
(इन्द्रवज्रा छन्दः) इत्थं स्तुतो यो यमकस्तवेन, वामाङ्गजः पार्श्वजिनो जनानाम् । भूयाद्विभूत्यै विभुताप्रशस्तः, श्रीवल्लभेनार्चितपादपद्मः || १४ ||
इति श्रीपार्श्वनाथजिनं यमकमयं स्तोत्रं समाप्तम् ।
तिमिरीपुरीश्वर श्रीपार्श्वनाथस्तोत्रम्
समस्यामयं
(वसंततिलकावृत्तम्) श्री पार्श्वनाथजिनपं तमहं स्तवीमि, दृष्ट्वा यदीयवरधारिमवद्धनत्वम् । स्थूलोन्नतोऽपि जनमानसमुत्सुमेरुः, शैलो बिभत्ति परमाणुसमत्वमेषाम् ॥१॥
Jain Education International
(वसंततिलकावृत्तम्) यस्तर्हि पश्यति मुखं सुषमं प्रभाते, निःस्वोऽपि पार्श्वजिन जायत इन्दुरौकाः । मूक: प्रजल्पति शृणोति च कर्णहीनः, पंगुश्च नृत्यति विभातितरां कुरूपः ||३||
(इन्द्रवज्रा )
वामेय सर्व्वयमहं स्मरामि, त्रैलोक्यलोकं पृणवर्ण्यवर्णम् । धर्मोपदेशावसरे यदास्य
चन्द्रो हि पृथ्व्यामुदितो विभाति ॥२॥
(इन्द्रवज्रा )
श्रीपार्श्वनाथः सततं करोतु, श्रेयांसि भूयांसि नताङ्गभाजाम् । यत्कीर्तिनक्षत्रलसत्तर
र्देदीप्यते व्योमतले समुद्रः ॥४॥
333
For Private & Personal Use Only
www.jainelibrary.org