________________
34
(इन्द्रवज्रा ) पार्श्वप्रभो ! त्वं तिमिरीपुरीशं, ध्यायंश्चिरं घातिकुकर्म हत्वा । ज्ञानौषधं प्राप विलासि तस्मादन्धो जगत् पश्यति दर्शरात्रौ ॥५॥
(वसन्ततिलकावृत्तम्) पापानि नाशय भवान्तरसञ्चितानि, स त्वं जिनेश रचयाशु च मङ्गलानि । यत्सद्विशुद्धयशसः स्फुरतस्त्रिलोक्यां, सोमश्चिरेण शुशुभे खलु नीलमूर्तिः ॥७॥
(तोटकवृत्तम्) प्रणतः सततं कुरुते स्तवनं, महनं च यकस्तव देवनरः । कुशलं कमलामरुजं च शिवं, लभते लभते लभते लभते ||६||
Jain Education International
(मालिनीच्छन्दः) समवसरणमध्यासीनसन्नाष्टकर्मन्, प्रहतकुमतिमान त्वत्पदाभ्यर्चनार्थम् । जिनवर सुरनागैरागते रागवद्भिः, शुभभुवि भुवि दृश्येते छुपाताललोकौ ॥९॥
अनुसंधान - २८
(उपेन्द्रवज्रा ) प्रापूयते नम्रसुरेन्द्रमयैदिवस्पृथिव्योरथ पार्श्वनाथः | यदीयगाम्भीर्यगुणाग्रतो वै,
दधाति सिन्धुः सुरभी पदाभाम् ॥८॥
For Private & Personal Use Only
www.jainelibrary.org