________________
24
अनुसंधान-२५ निरस्यते? 1 उत्तिष्ठोत्तिष्ठ अप्रामाणिक ! प्रामाणिकमण्डलीतः । प्रकृतं ब्रूमहे । हे महेच्छाः ! तावदनुष्ठीयते प्रमाणगोष्ठी ।।
अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः प्रमाणाङ्गं संशयादिव्युदासविशदं प्रमाणपदमासाद्य तत्त्वज्ञानार्थी कारणोपपत्तीर्मुगयते । भावा अविज्ञातपरमार्था अवान्तरभेदकारणज्ञानेन निर्मीतार्थाः स्युः ।
मानाधीना मेयसिद्धि-निसिद्धिश्च लक्षणात् । प्रमाणमिति साकांक्षं वचनं तत्र मानसिद्धिश्च लक्षणात् (?) ॥
तत्र लक्षणं द्वेधा-सामान्यलक्षणं १ विशेषलक्षणं च २ । तत्र स्वपरजातीयव्यावतको धर्मो लक्षणमसाधारणमेव । पटाद् घटस्वरूपं व्यावर्त्तयति, घटात् पटस्वरूपं, इति स्वपरजातीयव्यावृत्तिः ।।
लक्षणे त्रीणि दूषणानि - अव्यापकत्वं १ अतिव्यापकत्वं २ असम्भवित्वं ३ चेति । स्वपक्षमपि न व्याप्नोति अव्यापकम् । यथाब्राह्मणश्चतुर्वेदाभिज्ञः । "व्रात्येनाऽनैकान्तिकत्वात् । स्वपरपक्षसिद्धौ समत्वेऽतिव्यापकत्वम् । यथा-“यज्ञोपवीतधारी ब्राह्मणः । क्षत्रियादावतिव्याप्तिः । ब्राह्मणेन सुरा पेया, द्रवद्रव्यत्वात्, क्षीरवद्, इत्यसम्भवित्वं चेति ॥
इह हि न्यायशास्त्रे चतुर्की प्रवृत्तिरस्ति - उद्देशो १ लक्षणं २ परीक्षा ३ विभाग ४ श्चेति ।। उद्देश: किमुच्यते ? | नाम्ना पदार्थानां संक्षेपेणाऽभिधानमुद्देशः । उद्दिष्टस्य स्वपरजातीयव्यावर्त्तको धर्मो लक्षणम् । लक्षितस्य यथाक्रमं विचार: परीक्षा । परीक्षितस्याऽवान्तरभेदप्रकटनं विभागः ।।
ततः प्राक्सूत्रे प्रमाणस्वरूपादुद्देशः कृतः, ततो 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य चतुर्द्धा विप्रतिपत्तौ प्राक् प्रमाणस्वरूपमाह-स्वपरव्यवसायि ज्ञानं प्रमाणम् । स्वं आत्मा-ज्ञानस्य स्वरूपम् । परः स्वस्मादन्योऽर्थ इति यावत्। तौ विशेषेण यथावस्थितस्वरूपेण अचेतनस्य सन्निकर्षादेः पराकरणेन अवस्यतिनिश्चिनोतीत्येवं शीलं यत् ज्ञानं तित्। स्वपरव्यवसायि प्रमाणमिति सामान्यलक्षणम्। ततो ज्ञानमेवैतत् । ज्ञानस्यैको ह्युत्पत्तिक्षणः द्वितीयो ज्ञप्तिक्षणः । ज्ञानस्य प्रामाण्यमप्रामाण्यं च । अवग्रहेहादिभिरासन्नदशायां घटादिज्ञानोत्पत्तिक्षणे । प्रमेयाव्यभिचारित्वं प्रामाण्यं परतः । अनभ्यासदशायां तु सानुमति धूमवत्त्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org