________________
अनुसंधान - २०
तस्मात् सुदृढमिदं यन्नाऽस्ति जीवः ।
ननु यो भूतव्यतिरिक्तं जीवं प्रतिषेधति स एव जीव:, जीवादन्यस्य घटादेरिवाऽचेतनत्वेन प्रतिषेधकत्वायोगात् इति चेत्
न, चैतन्यविशिष्टकायस्यैव परलोकगामिजीवप्रतिषेधकत्वात्, तदन्यसत्त्वे प्रमाणाभावात् ।
यत्तु 'जीवश्चेत् परलोकगामी न भवेत् तर्हि दानादिफलस्याऽभाव एव स्यात्, ततः प्रतिपद्यतां परलोकगामी जीव इति', तत् भस्मावगुण्डितपुरुषवचनवत् प्रश्नाननुरूपत्वादसङ्गतम् । तथा हि
केनाऽपि प्रामाणिकेन कश्चिद् भस्मावगुण्डितशरीरः पृष्टो यथा - केचिद वादिन आचक्षते - देवो नाऽस्ति प्रमाणाभावात् । तत्र किमुत्तरम् ? स आह यदि देवो न स्यात् तर्हि धार्मिको देवार्चननिमित्तं पुष्पानयनाय कथमाराममगात् । न हीदं वाक्यं देवसाधकं भ्रान्त्यैव तत्प्रवृत्त्युपपत्तेः । एवं दानादेरपि लोभ- मिथ्याज्ञानादित एव कैश्चित् प्रवर्तितत्वेन परलोकगामिजीवसाधकता दुरापास्ता ।
37
अथ स्मरणं ह्यनुभूतविषयं, अन्यथाऽतिप्रसङ्गात् । स्मर्यते च केनचित् पूर्वभवसम्बद्धं जन्म । ततोऽवश्यं तदनुभूतमिति सिद्धः परलोकगामी आत्मा इति चेत् ।
न । नहि पूर्वभवसम्बद्धजातिं स्मरन् कश्चिदुपलभ्यते येनैवमुच्यमानं मनो हरति विदुषाम् । न चाऽनुपलभ्यमानोऽपि कश्चिद् भविष्यतीति स्वीकरणीयं, वन्ध्यापुत्रस्वीकारप्रसङ्गात् ।
ननु बालकस्य प्रथमत एवोत्पन्नस्य स्तनदर्शनान्तरं स्तनादानाभिलाषो जायते । स चाऽभिलाषः पूर्वविवक्षितकारणदृष्टावेव दृष्टेषु कार्येषु तत्कार्यतया च ज्ञातेषु सत्सु पुनरपि कालान्तरे विवक्षितकारणदर्शनानन्तरमुपजायमानेन स्मरणेन विवक्षितकायांर्थितया विवक्षितकारणादानविषयो जन्यते, नाऽन्येन । न चाऽसौ बालकस्य तदानीमसिद्ध इति वाच्यं अभिलाषादेव प्रतिनियतविवक्षितकारणोपादानाद्यर्थे प्रवृत्त्यादिव्यवहारोपपत्तेः । यदुक्तम् -
तद्दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्मरणादभिलाषेण व्यवहारः प्रवर्तते ॥ इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org