________________
36
July-2002
आत्मसंवादः
॥ श्रीगुरुभ्यो नमः ॥
इह खलु 'ज्ञान-क्रियाभ्यां मोक्ष' इति जैनाः । तत्र सहते चार्वाकः । तथा हि- मोक्षो हि जीवस्योच्यते भवद्भिः, स तु नाऽस्त्येव, घटादेरिव तस्य प्रत्यक्षेणाऽग्रहणात् । न च तदन्यदनुमानं प्रमाणं, अनुमानविरुद्धत्वादिदोषात् । तत्राऽनुमानविरोधो यथा-घटस्य नित्यत्वे साध्ये । घटस्य हि नित्यत्वं साध्यमानमनित्यत्वसाधकेन परिणामित्वसाधकेन चाऽनुमानेन बाध्यते । एवं सर्वत्राऽपि ।
अपि चाऽनुमानस्य विषयः किं सामान्यं विशेषो वा उभयं वा स्यात् । नाऽऽद्यः, अग्निमात्रास्तित्वे कस्यचिद् विप्रतिपत्त्यभावेन सिद्धसाधान् (सिद्धसाधनात्) । न च तेन सिद्धेनाऽपि किञ्चित् प्रयोजनं, पुरुषस्य प्रवृत्ति प्रति देशादिविशिष्टस्यैव वर्हेतुत्वात् ।
न द्वितीयः, अत्र हि विवक्षितदेशादिविशिष्टो वह्निरस्तीति विशेष: साध्यः, तच्चन युक्तं विवक्षितदेशादिविशेषणसहितस्य वढेरन्वयाभावात् । न हि पर्वतोऽयं वह्निमान् धूमादित्यादौ विवक्षितदेशादिविशिष्टेन साध्येन सह हेतोरन्वयोऽस्ति, तथाविधेन वयादिना सह धूमादेाप्त्यनिश्चयात् ।
नाऽपि तृतीयः, तत्राऽपि हि सामान्यवान् विशेषः साध्यः । तथा च विशेषपक्षोक्तदोषात् । तदुक्तं
"विशेषेऽनुगमाभावात्, सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपनत्वादनुमानकथा कुतः ? ॥ इति ।
न चाऽऽगमः प्रमाणं, तत्र बहूनां विप्रतिपत्तेः । यत्तु प्रमाणं तत् सर्वेषामविगानेन स्थितं, यथा प्रत्यक्षम् ।
अपि च कथं 'छव्विहा जोवा पन्नत्ता, तं० पुढविकाइया जाव तसकाईया' तथा 'अस्थि जीवे' इत्यादि जीवास्तित्वप्ररूपकं वचः प्रमाणम् ? पृथिव्यासेजोवायुरिति तत्त्वानि, तत्समुदायेषु शरीरेन्द्रियविषयसंज्ञा । तथा 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवाऽनुविनश्यति' इत्यादिकं च जीवप्रतिषेधपरं न प्रमाणं ?, नियामकाभावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org