________________ 91 अनुसंधान-२० अथ कृतकत्वानित्यत्वयोरभेदादनित्यत्वं कृतकत्वमात्रानु-बन्ध्येवाऽन्यथा पश्चाह्नवदनित्यत्वं कारणान्तरसापेक्षतया भिन्नहेतुत्वात् कृतकत्वाद् भिन्नं न स्यात् / इत्यनित्यत्वं कृतकत्वानुबन्ध्येव इति चेत् / तर्हि द्वितीयक्षणे कारणापेक्षाया अभ्युपगमो न सुन्दरः स्यात् / तदा तस्य विनष्टत्वेन कार्यस्य तदपेक्षाया अनुपपत्तेः / अथैष एव कारणस्य स्वभावो यत् तस्याऽनन्तरक्षणे कार्यं भवति / कार्यस्याऽपि चैष एव स्वभावो यत् कारणक्षणानन्तरं मयोत्पत्तव्यमिति, ततो न दोष इति चेत् / तथाऽपि कार्यस्य कारणानन्तरक्षणभवने कारणस्वभाव एव निबन्धनम् / अन्यथा प्रागपि तदुत्पत्तिप्रसङ्गात् / न द्वितीयक्षणे कारणस्वभावः, तस्य क्षणिकत्वात् / तत् कथं तद्भावः स्यात् ? / भावे वा तस्य तत्स्वभावोपेक्षितया न कारणस्य क्षणिकत्वं स्यात् / नाऽप्यसत: कार्यस्य स्वभाव: कल्पयितुं शक्यः, स्त भाविनोऽभावे स्वभावस्याऽप्यभावात् / जातस्य तस्य स तथा कल्प्यत इति चेत् / किमिदानीमनेन कर्तव्यं ? कार्यस्य प्रागेवोत्पत्तेः / अथ स स्वभावः परिकल्पित इति चेत् / न / तथा प्रतीत्यभावात् / एतेन यदुक्तं प्राक्- "विशिष्टं कारणं प्रतीत्य कार्यमुत्पद्यत" इति / तत् सप्रपञ्चमपास्तम् / वस्तुतस्तु क्षणिकत्वेनाऽस्त्येव कारणस्य वैशिष्ट्यम् ! युगपद भाविनां परिनिष्पन्नत्वेन परस्परमनाधेयातिशयत्वेन विशेषणाभावात् / न च- मा भूत् सहजानां परिनिष्पन्नत्वेन परस्परमतिशयाधानं, द्वाभ्यां पुनरूपादानसहकारि-- कारणाभ्यां प्राक्तनाभ्यामेकीभूय विशिष्टं तदुत्पादितम् / ततः सिद्धं वैशिष्ट्यमिति-वाच्यम् / उत्पाद्यविशिष्टकारणापेक्षया भिन्नाद्धानां सहकारिणां सम्बन्धी कुत: विशेषः स्यात् ? उपादानस्य विशेषभावमन्तरेण विवक्षितसहकारिसनिधानात् प्रागिव तत उपादानतो विशिष्टफलानुपपत्तेः / अथ विवक्षितफलसम्बन्धिन उपादानस्य विशेषभावः सहकारिभिः क्रियमाण आश्रीयत इति चेत् / न / समकालभावित्वेन तस्याऽप्युपादानकारणस्य सहकारिभ्यो विशेषानुपपत्तेः / न हि समकालभाविनोऽन्यतो भवतः सहकारिणाकरणादन्यत एव भवत उपादानकारणस्य विशेषभावो युज्यते / स्यादेतत्- उत्पाद्यविशिष्टक्षणोपादानस्य विवक्षितोपादानसहकार्युपादानैस्तदुपादानोपादानानामपि तदुपादानोपादानविशेषभाव आधीयते / तथा च न दोषः / अनादित्वाच्चोपकार्योपकारकपरम्पराया नाऽनवस्थाऽपीष्टा बाधिका Jain Education International For Private & Personal Use Only www.jainelibrary.org