SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 64 July-2002 किञ्चैवं यूका-मत्कुणादिषु चैतन्याभाव एव स्यात्, लोकप्रतीतिबाधात् । अन्ये तु, ज्ञानं क्वचिदाश्रितं, गुणत्वात्-रूपवदित्यनुमानं प्रमाणमाहुरात्मसिद्धौ । न चेन्द्रियाणि तद्वन्ति, करणत्वाद् वासीवत् । करणत्वेऽपि यदि ज्ञानवत्त्वं स्यात् इन्द्रियाणां तदा तेषां स्वस्वविषयमात्रग्रहणशक्तिमत्त्वेन परविषये प्रवृत्त्ययोगाद् रूप-स्पर्शविषयमेकाधारं ज्ञानं न स्यात्, स्पर्शग्राहकस्य स्पर्शनेन्द्रियस्य रूपाग्राहकत्वात् । अन्यथाऽन्धस्याऽपि घटगतकाठिन्यादिस्पर्शज्ञाने नीलादिविज्ञानस्योत्पादप्रसङ्गात् । न च रूप-स्पर्शविषयमेकाधारं ज्ञानमसिद्धं, य एवाऽहं घटं करेण कठिनमनुभवामि स एवाऽहं श्याममपि साक्षात्करोमीत्यनुभवात् । पूर्वानुभूतस्वशरीररूपादेरन्धत्वदशायामस्मरणप्रसङ्गाच्च । नाऽपि शरीरं तद्वत्, जडत्वात्घटवत् । न चाऽप्रयोजकत्वं, शरीरस्य ज्ञातृत्वे बाल्यानुभूतमातृस्तन्यपानादेवृद्धत्वदशायां संस्कारानुदयेन स्मरणाभावप्रसङ्गात् । नह्यननुभूतमपि स्मर्यते, अतिप्रसङ्गात् । न च वृद्धशरीरं अनुभवित, तस्य तदानीमसत्त्वात् । न च तस्याऽपि कथञ्चित् सत्त्वं, जैनमतप्रवेशात् । शरीरस्य भूतसमुदायरूपतया नानात्वेन चैतन्यस्याऽपि नानात्वप्रसङ्गात् । न च भूतसमुदायारब्धमेकमेव शरीरं इति चैतन्यमप्येकं, नैयायिकमत एव तादृशावयविस्वीकारात्; त्वन्मते तु नैवं, 'समुदायमात्रमिदं कलेवरं'- इति वचनात् । ततः परिशेषाद् यत्राऽऽश्रितं ज्ञानं स आत्मा । स च न शरीरविनाशेऽपि विनश्यति, वस्तुतः सर्वथा विनाशाभावात् । अविनाशित्वे च क्वचिदस्याऽवस्थित्या भाव्यमिति सिद्ध एव परलोकः । सुखित्वदुःखित्वरूप: पूर्वकृतकर्मफलोदयवान्-इत्याहुः । एतेन - "सदा मद्यादिकं पेय' मित्यादि यदुक्तं तन्निरस्तं, परलोकसिद्धौ जुगुप्सितकर्मणां दुःखहेतुत्वेन विवर्ण्यत्वोपपत्तेः ।। किञ्च, प्रमाणं विना न कस्याऽपि प्रतिषेधो, भूतानामपि प्रतिषेधप्रसङ्गात् । तथा च किमात्मप्रतिषेधे प्रमाणं? न तावत् प्रत्यक्षं, तस्य सद्भूतयोग्यार्थग्राहकत्वेन प्रतिषेधे प्रवृत्त्ययोगात् । तदुक्तम् "आहुर्विधातृ प्रत्यक्षं न निषेद्ध विपश्चित" इति । अथ प्रत्यक्षं यत्र प्रवृत्तं तत्र प्रवृत्तिव्यवहारं जनयति, यतश्च निवृत्तं तत्र निवृत्तिव्यवहारं इति चेत्, न । प्रतिषेधविषये विवर्तमानं प्रत्यक्षं परमार्थतोऽविद्यमानस् । न चाऽविद्यमानेन वस्त्वभावो गम्यते, खरविषाणस्येवैतस्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229345
Book TitleMahopadhyaya Yashovijayji Ganikrut Atmasamvad
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages65
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy