SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२० 63 धर्मादिस्वरूपं च तत् । न च धर्मो धमिणमन्तरेणोपपद्यत इत्यस्य धर्मी सिद्ध्यति । यश्चाऽस्य धर्मी स न भूतसमुदायः, आनुरूप्याभावात् । किन्तु तदतिरिक्त एव, परिशेषात् । यश्चाऽतिरिक्तः स एवाऽऽत्मेति सिद्धमेतद् यत् स्वानुरूपान्वयिनिमित्तं चैतन्यमिति स्वानुरूपान्वयिनिमित्ताभावे कार्यकारणविभागनियमानुपपत्तेः । प्रयोगश्चचैतन्यं स्वानुरूपान्वयिनिमित्तं, कार्यत्वात्-घटवत् । नहि अत्यन्तासत उत्पादो घटते, अतिप्रसङ्गात्, किन्तु सत एव । तथा च कार्यत्वं हेतोस्तथाभावित्वेन व्याप्यते । तदुक्तं "न तथाभाविनं हेतुमन्तरेणोपजायत" इति । स्वानुरूपान्वयिनिमित्तानङ्गीकारे चाऽसत उत्पादाभ्युपगमप्रसङ्गः । ततो विपक्षाव्यापकविरुद्धोपलब्ध्या व्यावर्तमान कार्यत्वं स्वानुरूपान्वयिनिमित्तत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः । स्यादेतत्, अमूर्तस्वानुरूपान्वयिनिमित्तत्वं पक्षे विवक्षितं, घटादौ च कार्यत्वस्य तद्विपरीतसहचारदर्शनात् विशेषविरुद्धत्वं हेतोरिति चेत् । न । हेतोविवक्षितसाध्यविपरीतसहचारमात्रस्याऽदूषकत्वात्, अन्यथाऽतिप्रसङ्गात् । न हि हेतोर्मूर्तस्वानुरूपान्वयिनिमित्तकत्वेन व्याप्तिर्येन तथा स्यात्; किन्तु अंविशिष्टेनैव, तस्य च मूर्तत्वाङ्गीकारे बाधात् । तथा च न विशेषविरुद्धत्वं, 'विरुद्धोऽसति बाधन' इति वचनात् । अन्यथा धूमस्याऽपि महानसादौ व्यजनसहकृताग्निसहचार दर्शनात् पर्वते विशेषविरुद्धतया वढ्यननुमापकत्वापत्तेः । न चाऽस्माकमेवमपि क्षतिः, कर्मणा सह लोलीभावेनाऽवस्थानतः कथञ्चिदात्मनो मूतत्वाभ्युपगमात् । अथाऽस्तु अनुरूपो धर्मी मातृचैतन्यमिति चेत् । न । तदभावे सुतचैतन्यस्याऽपि अभावप्रसङ्गात् । अन्यथा धर्मत्वविरोधात्, मातृचैतन्यवृत्तितया च सुते तदभावप्रसङ्गात् । न च मा भवतु स धर्मी, कारणं तु भविष्यति, अनुरूपत्वात् । तथा चाऽसिद्धिरेवाऽऽत्मन इति चेत् । न । तत्संस्कारानुवृत्त्यभावेन तत्कार्यत्वविरोधात् । अन्यथा यज्ञदत्तचैतन्यस्याऽपि देवदत्तचैतन्यकार्यत्वप्रसक्तेः । मृत्पिण्डोपमर्देनैव घटोत्पादवत् मातृचैतन्योपमर्देनैव सुतचैतन्योत्पादप्रसङ्गाच्च । यदि पुनर्दीपाद्दीपान्तरोत्पत्तिवन्मातृचैतन्यात् तदुत्पत्तिरविरुद्धा, तदा तस्य सहकारिकारणतया सिद्ध एवाऽऽत्मा; अनुपादानस्य वस्तुनश्चाऽभावेनोपादानस्याऽऽत्मत्वात् । तत्सिद्धौ च स एवोपादेयरूपतया परिणमते, तदप्युत्तरोत्तरभावेन । तथा च सततमनुच्छित्त्या सुरनारकाद्यवस्थालक्षणः परलोकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229345
Book TitleMahopadhyaya Yashovijayji Ganikrut Atmasamvad
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages65
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy