________________
42
July-2002
प्राग्गृहीतान्धकारस्य निमीलिताक्षस्य प्राग्गृहीतस्यैवाऽन्धकारस्योपस्थापनेन ।
न चैवं त्वयाऽपि प्रागात्मा गृहीतोऽस्तीति स्वीक्रियते येनाऽस्यैवोपस्थापनेनाऽहंप्रत्ययादात्मग्रहणाभिमान उच्यमानः सुन्दरतां तवाऽऽत्मनः ख्यापयेत् । यदि तु स्वीकृतस्तदा सिद्ध एवाऽऽत्मेति कृतं विवादेन ।
अत्राऽऽह - अस्तु अवग्रहादिज्ञानभेदानां धर्मतया प्रत्यक्षतया च तद्धर्मिणोऽपि प्रत्यक्षत्वम् । परं कुत एवं परलोकगाम्यात्मा प्रत्यक्षः ? भूतानामेव तद्धर्मित्वोपपत्तेः । यदुक्तं वाचस्पतिना
'पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीर-विषयेन्द्रियसंज्ञास्तेभ्यश्चैतन्यमिति । कायाकारप्राणापानपरिग्रहवद्र्यो भूतेभ्यस्तदुत्पद्यते तेनाऽविशिष्टेभ्य इति । प्रयोगश्च-चैतन्यं कायाकारभूतेभ्यः समुत्पद्यते, तद्भाव एव भावात्, मद्याङ्गेभ्यो मदशक्तिवत् । न चोत्पद्यतां तथाविधभूतेभ्यः. परन्तु धर्मी तस्य जीव एव स्यादिति वाच्यम्; उत्पादकत्वाभिमतभूतसमुदायस्यैव धर्मितयाऽऽत्मकल्पनानवकाशात्' ।।
तन्न, चैतन्यस्य धर्मत्वे स्वीकृते आत्मास्वीकारस्य लज्जास्पदत्वात्: धर्मिणमन्तरेण धर्मस्याऽवस्थितेरभावात् । न च भूतान्येव धर्मी, आनुरूप्याभावात् । अन्यथा जल-काठिन्ययोरपि धर्म-धर्मिभावप्रसङ्गात् । न चाऽऽनुरूप्याभावोऽसिद्धः, अबोधस्वरुपस्य मूर्तस्य विषयापरिच्छेदकस्य पृथिव्यादिभूतस्य बोधस्वरूपं अमूर्त विषयपरिच्छेदकं चैतन्यं प्रति अनुरूपित्वाभावात् । अबोधस्वरूपत्वादिकं च भूतानां सकलजगत्प्रसिद्धमेवेति नहि तदपि प्रत्याख्यातुं शक्यम् ।
तदिदमुच्यते-भूतसमुदायश्चैतन्यस्य धर्मी न, चैतन्येन सहाऽननुरूपित्वात् । यद् येन सहाऽननुरूपि तत् तस्य धर्मिभूतं न, यथा काठिन्यस्य जलम् । अननुरूपी च चैतन्येन सह भूतसमुदायस्तस्मान्न चैतन्यस्य धर्मीति । तदुक्तम्
काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धितः । चंतना च न तद्रूपा तद्धर्मः सा कथं भवेद् ।। इति । किं च. न प्रत्येकं भूतानां धर्मश्चैतन्यं, घटपटादावभावात् । अथ तत्राऽप्यस्त्येव चैतन्यं, किन्त्वनभिव्यकं काष्टपिष्टादौ मदशक्तिवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org